________________
७६
विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम्
२७. तेषामौत्पत्तिकत्वादागमेन प्रवर्तेत । २८. तथा हि लिङ्गदर्शनम् । २९. तथान्तःक्रतुप्रयुक्तानि । ३०. आचाराद्गृह्यमाणेषु तथा स्यात् पुरुषार्थत्वात् । ३१. ब्राह्मणस्य तु सोमविद्याप्रजमृणवाक्येन संयोगात् ।
॥ इति षष्ठाध्यायस्य द्वितीयः पादः ॥
तृतीयः पादः १. सर्वशक्तौ प्रवृत्तिः स्यात् तथाभूतोपदेशात् । २. अपि वाप्येकदेशे स्यात् प्रधाने ह्यर्थनिर्वृत्तिर्गुणमात्रमितरत्, तदर्थत्वात् । ३. तदकर्मणि च दोषः, तस्मात् ततो विशेषः स्यात् प्रधानेनाऽभिसम्बन्धात् । ४. कर्माभेदं तु जैमिनिः, प्रयोगवचनैकत्वात् सर्वेषामुपदेशः स्यादिति । ५. सर्वस्य व्यपवर्गित्वादेकस्यापि प्रयोगे स्यात्, यथा क्रत्वन्तरेषु । ६. विध्यपराधे च दर्शनात् समाप्तेः । ७. प्रायश्चित्तविधानाच्च । ८. काम्येषु चैवमर्थित्वात् । ९. असंयोगात्तु नैवं स्यात् विधेः शब्दप्रमाणत्वात् । १०. अकर्मणि चाप्रत्यवायात् । ११. क्रियाणामाश्रितत्वाद् द्रव्यान्तरे विभागः स्यात् । १२. अपि वाऽव्यतिरेकाद् रूपशब्दविभागाच्च गोत्ववदैककर्म स्यात् नामधेयं
च सत्त्ववत् । १३. श्रुतिप्रमाणत्वाच्छिष्टाभावेऽनागमोऽन्यस्याऽशिष्टत्वात् । १४. क्वचिद्विधानाच्च । १५. आगमो वा चोदनार्थाविशेषात् । १६. नियमार्थः क्वचिद्विधिः। १७. तन्नित्यं तच्चिकीर्षा हि। १८. न देवताग्निशब्दक्रियमन्यार्थसंयोगात् । १९. देवतायां च तदर्थत्वात् । २०. प्रतिषिद्धं चाविशेषेण हि तच्छ्रुतिः । २१. तथा स्वामिनः फलसमवायात् फलस्य कर्मयोगित्वात् । २२. बहूनां तु प्रवृत्तेऽन्यमागमयेदवैगुण्यात् । ...
Jain Educationtersonal
For Personal & Private Use Only
www.jainelibrary.org