SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम् ७५ द्वितीयः पादः १. पुरुषार्थैकसिद्धित्वात् तस्य तस्याधिकारः स्यात्। .. २. अपि चोत्पत्तिसंयोगो यथा स्यात् सत्त्वदर्शनम्, तथा भावो विभागे स्यात् ३. प्रयोगे पुरुषश्रुतेः यथाकामी प्रयोगे स्यात् ।। ४. प्रत्यर्थं श्रुतिभाव इति चेत् । ५. तादर्थं न गुणार्थताऽनुक्तेऽर्थान्तरत्वात् कर्तुः प्रधानभूतत्वात् । ६. अपि वा कामसंयोगे सम्बन्धात् प्रयोगायोपदि-श्येत, प्रत्यर्थं हि ___ विधिश्रुतिर्विषाणावत् । ७. अन्यस्य स्यादिति चेत् । ८. अन्यार्थेनाभिसम्बन्धः। ९. फलकामो निमित्तमिति चेत् । १०. न नित्यत्वात् । ११. कर्म तथेति चेत् । १२. न समवायात् । १३. प्रक्रमात् तु नियम्येतासम्भवस्य क्रियानिमित्तत्वात् । १४. फलार्थित्वाद्वाऽनियमो यथानुपक्रान्ते । १५. नियमो वा तन्निमित्तत्वात् कर्तुस्तत्कारणं स्यात् । १६. लोके कर्माणि वेदवत्ततोऽधिपुरुषज्ञानम् १७. अपराधेऽपि च तैः शास्त्रम् । १८. अशास्त्रात् तूपसम्प्राप्तिः, शास्त्रं स्यान्न प्रकल्पकं, तस्मादर्थेन गम्यताप्राप्ते शास्त्रमर्थवत्। १९. प्रतिषेधेष्वकर्मत्वाक्रिया स्यात् प्रतिषिद्धानां विभक्तत्वादकर्मणाम् । २०. शास्त्राणां त्वर्थवत्त्वेन पुरुषार्थो विधीयते तयोरसमवायित्वात्तादर्थ्य विध्यतिक्रमः। २१. तस्मिंस्तु शिष्यमाणानि जननेन प्रवर्तेरन् २२. अपि वा वेदतुल्यत्वादुपायेन प्रवर्तेरन् । २३. अभ्यासे कर्मशेषत्वात् पुरुषार्थो विधीयते । २४. तस्मिन्नसम्भवन्नर्थात् । २५. न कालेभ्य उपदिश्यन्ते । २६. दर्शनात् काललिङ्गानां कालविधानम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy