________________
७४
विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम्
२५. चातुर्वर्ण्यमविशेषात् । २६. निर्देशाद्वा त्रयाणां स्यादग्न्याधेये ह्यसम्बन्धः, क्रतुषु ब्राह्मणश्रुतिरित्यात्रेयः । २७. निमित्तार्थेन बादरिः, तस्मात् सर्वाधिकारः स्यात् । २८. अपि वाऽन्यार्थदर्शनात् यथाश्रुति प्रतीयेत् । २९. निर्देशात्तु पक्षे स्यात् । ३०. वैगुण्यान्नेति चेत् । ३१. न काम्यत्वात् । ३२. संस्कारे च तत्प्रधानत्वात् । ३३. अपि वा वेदनिर्देशादपशूद्राणां प्रतीयेत् । ३४. गुणार्थित्वान्नेति चेत् । ३५. संस्कारस्य तदर्थत्वात्, विद्यायां पुरुषश्रुतिः ३६. विद्यानिर्देशान्नेति चेत् । ३७. अवैद्यत्वादभावः कर्मणि स्यात् । ३८. तथा चान्यार्थदर्शनम्। ३९. त्रयाणां द्रव्यसम्पन्नः कर्मणो द्रव्यसिद्धत्वात् । ४०. अनित्यत्वात्तु नैवं स्यादर्थाद्धि द्रव्यसंयोगः । ४१. अङ्गहीनश्च तद्धर्मा । ४२. उत्पत्तौ नित्यसंयोगात् । ४३. अत्र्यायस्य हानं स्यात् । ४४. वचनाद् रथकारस्याधानेऽस्य सर्वशेषत्वात् । ४५. न्याय्यो वा कर्मसंयोगात् शूद्रस्य प्रतिषिद्धत्वात् । ४६. अकर्मत्वात्तु नैवं स्यात् । ४७. आनर्थक्यं च संयोगात् । ४८. गुणार्थेनेति चेत् । ४९. उक्तमनिमित्तत्वम्। ५०. सौधन्वनास्तु हीनत्वात् मन्त्रवर्णात् प्रतीयेरन् । ५१. स्थपतिर्निषादः स्यात् शब्दसामर्थ्यात् । ५२. लिङ्गदर्शनाच्च ।
॥इति षष्ठाध्यायस्य प्रथमः पादः ॥
Jain Education International
www.jainelibrary.org