________________
विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम्
अथ षष्ठोऽध्यायः
प्रथमः पादः १. द्रव्याणां कर्मसंयोगात् गुणत्वेनाऽभिसम्बन्धः । २. असाधकं तु तादात् । ३. प्रत्यर्थं चाऽभिसंयोगात् कर्मतो ह्यभिसम्बन्धः, तस्मात् कर्मोपदेशः स्यात् । ४. फलार्थत्वात् कर्मणः शास्त्रं सर्वाधिकार स्यात् । ५. कर्तुर्वा श्रुतिसंयोगाद्विधिः कार्येन गम्यते । ६. लिङ्गविशेषनिर्देशात्तु पुंयुक्तमैतिशायनः । ७. तदुक्तित्वाच्च दोषश्रुतिरविज्ञाते । ८. जातिं तु बादरायणोऽविशेषात्, तस्मात् स्त्र्यपि प्रतीयेत्, जात्यर्थस्या.. विशिष्टत्वात्
९. चोदितत्वाद् यथाश्रुति । १०. द्रव्यवत्त्वात्तु पुंसां स्यात् द्रव्यसंयुक्तं क्रयविक्रया-भ्याम्, अद्रव्यत्वं
स्त्रीणां द्रव्यैः समानयोगित्वात् । ११. तथा चाऽन्यार्थदर्शनम् । १२. तादात् कर्मतादर्थ्यम् । १३. फलोत्साहाऽविशेषात्तु । १४. अर्थेन च समवेतत्वात् । १५. क्रयस्य धर्ममात्रत्वम्। १६. स्ववत्तामपि दर्शयति । १७. स्ववतोस्तु वचनादैककचू स्यात् । १८. लिङ्गदर्शनाच्च । १९. क्रीतत्वात्तु भक्त्या स्वामित्वमुच्यते । २०. फलार्थित्वात्तु स्वामित्वेनाऽभिसम्बन्धः। २१. फलवत्तां दर्शयति । २२. द्वयाधानं च द्वियज्ञवत् । २३. गुणस्य तु विधानत्वात् पन्या द्वितीयशब्दः स्यात् । २४. तस्या यावदुक्तमाशीब्रह्मचर्य्यमतुल्यत्वात् । only
Jain Education Internatioal
www.jainelibrary.org