SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ विभाग- १, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम् चतुर्थ: पाद: १. क्रमको यो ऽर्थशब्दाभ्यां श्रुतिविशेषादर्थपरत्वाच्च । २. अवदानाऽभिधारणाऽऽसादनेष्वानुपूर्व्यं प्रवृत्त्या स्यात् । ३. यथाप्रदानं वा तदर्थत्वात् । ४. लिङ्गदर्शनाच्च । ५. वचनादिष्टिपूर्वत्वम् । ६. सोमश्चैकेषामग्न्याधेयस्यर्तुनक्षत्राऽतिक्रमवचनात् तदन्तेनानर्थकं हि ७२ स्यात् । ७. तदर्थवचनाच्च नाविशेषात्तदर्थत्वम् । ८. अयक्ष्यमाणस्य च पवमानहविषां कालनिर्देशादानन्तर्य्याद्विशङ्का स्यात् । ९. इष्टियक्ष्यमाणस्य तादर्थ्ये सोमपूर्वत्वम् । १०. उत्कर्षाद् ब्राह्मणस्य सोमः स्यात् । ११. पौर्णमासी वा श्रुतिसंयोगात् । १२. सर्वस्य वैककर्म्यात् । १३. स्याद्वा विधिस्तदर्थेन । १४. प्रकारणात्तु कालः स्यात् । १५. स्वकाले स्यादविप्रतिषेधात् । १६. अपनयो वाऽऽधानस्य सर्वकालत्वात् । १७. पौर्णमास्यूर्ध्वं सोमात् ब्राह्मणस्य वचनात् । १८. एवं शब्दसामर्थ्यात् प्राक् कृत्स्नविधानात् १९. पुरोडाशस्त्वनिर्देशे तद्युक्ते देवताभावात्। २०. आज्यमपीति चेत् । २१. न मिश्रदेवतत्वादैन्द्राग्नवत् । २२. विकृतेः प्रकृतिकालत्वात् सद्यः कालोत्तरा विकृतिः तयोः प्रत्यक्ष शिष्टत्वात् । २३. द्वैयहकाल्ये तु यथान्यायम् । २४. वचनाद् वैककाल्यं स्यात् । २५. सान्नाय्याग्नीषोमीयविकारा ऊर्ध्वं सोमात् प्रकृतिवत् । २६. तथा सोमविकारा दर्शपूर्णमासाभ्याम् । ॥ इति पञ्चमाध्यायस्य चतुर्थः पादः पञ्चमोऽध्यायश्च ॥ For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy