________________
विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम्
५५
१७. अन्ते स्युरव्यवायात् । १८. लिङ्गदर्शनाच्च । १९. मध्यमायां तु वचनाद् ब्राह्मणवत्यः । २०. प्राग्लोकम्पृणायास्तस्याः सम्पूरणार्थत्वात् । २१. संस्कृते कर्म, संस्काराणां तदर्थत्वात् । २२. अनन्तरं व्रतं तद्भूतत्वात् । २३. पूर्वं च लिङ्गदर्शनात् । २४. अर्थवादो वाऽर्थस्य विद्यमानत्वात् । २५. न्यायविप्रतिषेधाच्च । २६. सञ्चिते त्वग्निचिद्युक्तं प्रापणानिमित्तस्य २७. क्रत्वन्ते वा प्रयोगवचनाभावात् । २८. अग्नेः कर्मत्वनिर्देशात् । २९. परेणाऽऽवेदनाद्दीक्षितः स्यात्, सर्वैर्दीक्षाभिसम्बन्धात् । ३०. इष्ट्यन्ते वा तदर्था ह्यविशेषार्थसम्बन्धात् ३१. समाख्यानं च तद्वत् । ३२. अङ्गवत् क्रतूमानुपूर्व्यम् । ३३. न वाऽसम्बन्धात् । ३४. काम्यत्वाच्च । ३५. आनर्थक्त्यानेति चेत् । ३६. स्याद्विद्यार्थत्वाद्यथा परेषु सर्वस्वारात् । ३७. य एतेनेत्यग्निष्टोमः प्रकरणात् । ३८. लिङ्गाच्च । ३९. अथान्येनेति संस्थानां सन्निधानात् । ४०. तत्प्रकृतेर्वाऽऽपत्तिविहारौ हि न तुल्येषूपपद्यते । ४१. प्रशंसा वा विहरणाभावात् । ४२. विधिप्रत्ययाद्वा न ह्येकस्मात् प्रशंसा स्यात् । ४३. एकस्तोमे वा क्रतुसंयोगात् । ४४. सर्वेषां वा चोदनाविशेषात् प्रशंसा स्तोमानाम् ।
॥इति पञ्चमाध्यायस्य तृतीयः पादः ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org