SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ७० १५. एकं वा तण्डुलभावाद्धन्तेस्तदर्थत्वात् । १६. विकारे त्वनूयाजानां पात्रभेदोऽर्थभेदात् स्यात् । विभाग- १, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम् १७. प्रकृतेः पूर्वोक्तत्वादपूर्वमन्ते स्यान्न चोदितस्य शेषाम्नानम् । १८. मुख्यानन्तर्य्यमात्रेयः तेन तुल्यश्रुतित्वादशब्दत्वात्प्राकृतानां व्यवाया: , स्यात् । १९. अन्ते तु बादरायणः, तेषां प्रधानशब्दत्वात् । २०. तथा चान्यार्थदर्शनम् । २१. कृतदेशात्तु पूर्वेषां स देशः स्यात्तेन प्रत्यक्षसंयोगात् न्यायमात्रमितरत् । २२. प्राकृताच्च पुरस्ताद्यत् । २३. सन्निपातश्चेत् यथोक्तमन्ते स्यात् । ॥ इति पञ्चमाध्यायस्य द्वितीयः पादः ॥ तृतीयः पादः १. विवृद्धिः कर्मभेदात् पृषदाज्यवत्तस्य तस्योपदिश्येत । २. अपि वा सर्वसङ्ख्यत्वाद्विकारः प्रतीयेत् । ३. स्वस्थानात्तु विवृध्येरन् कृतानुपूर्व्यत्वात् । ४. समिध्यमानवतीं समिद्ध्यवतीं चान्तरेण धाम्याः स्युर्द्यावापृथिव्यो रन्तराले समर्हणात् । ५. तच्छब्दो वा । ६. उष्णिक्ककुभोरन्ते दर्शनात् । ७. स्तोमविवृद्धौ बहिष्पवमाने पुरस्तात्पर्यासादागन्तवः स्युः तया हि दृष्टं द्वादशाहे । ८. पर्यास इति चान्ताख्या । ९. अन्ते वा तदुक्तम् । १०. वचनात्तु द्वादशाहे । ११. अतद्विकारश्च । १२. तद्विकारे ऽप्यपूर्वत्वात् । १३. अन्ते तूत्तरयोर्दध्यात् । १४. अपि वा गायत्रीबृहत्यनुष्टुप्सु वचनात् । १५. ग्रहेष्टकमोपानुवाक्यं सवनचितिशेषः स्यात् । १६. क्रत्वग्निशेषो वा चोदितत्वादचोदनानुपूर्वस्य । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy