SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम् २२. न, तत्सम्बन्धात् । २३. अङ्गानां मुख्यकालत्वाद्यथोक्तमुत्कर्षे स्यात् । २४. तदादि वाऽभिसम्बन्धात्, तदन्तमपकर्षे स्यात् । २५. प्रकृत्या कृतकालानाम् । २६. शब्दविप्रतिषेधाच्च । २७. असंयोगात् तु वैकृतं तदेव प्रतिकृष्येत । २८. प्रासङ्गिकं च नोत्कर्षेदसंयोगात् । २९. तथाऽपूर्वम् । ३०. सान्तपनीया तूत्कर्षेदग्निहोत्रं सवनवद्वैगुण्यात् । ३१. अव्यवायाच्च । ३२. असम्बन्धात्तु नोत्कर्षेत् । ३३. प्रापणाच्च निमित्तस्य । ३४. सम्बन्धात् सवनोत्कर्षः । ३५. षोडशी चोक्थ्यसंयोगात् । ॥ इति पञ्चमाध्यायस्य प्रथमः पादः ॥ द्वितीयः पादः १. सन्निपाते प्रधानानामेकैकस्य गुणानां सर्वकर्म स्यात् । २. सर्वेषां वैकजातीयं कृतानुपूर्व्यत्वात् । ३. कारणादभ्यावृत्तिः । ४. मुष्टिकपालावदानाञ्जनाभ्यञ्जनवपनपावनेषु चैकैकेन । ५. सर्वाणि त्वेककार्य्यत्वादेषां तद्गुणत्वात् । ६. संयुक्ते तु प्रक्रमात् तदङ्गं स्यादितरस्य तदर्थत्वात् । ७. वचनात्तु परिव्याणान्तमञ्जनादिः स्यात् । ८. कारणाद्वाऽनवसर्गः स्यात् यथा पात्रवृद्धिः । ९. न वा शब्दकृतत्वान्यायमात्रमितरदर्थात्पात्रविवृद्धिः । १०. पशुगणे तस्य तस्यापवर्जयेत् पश्वेकत्वात् । ११. दैवतैर्वैककर्म्यात् । १२. मन्त्रस्य चार्थवत्त्वात् । १३. नानाबीजेष्वेकमुलूखलं विभवात् । १४. विवृद्धिर्वा नियमादानु पूर्व्यस्य तदर्थत्वात् । Jain Education International For Personal & Private Use Only ६९ www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy