SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ६८ विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम् ३९. ज्योतिष्टोमे तुल्यान्यविशिष्टं हि कारणम् । ४०. गुणानां तूत्पत्तिवाक्येन सम्बन्धात् कारणश्रुतिः, तस्मात् सोमः प्रधानं स्यात् । ४१. तथा चान्यार्थदर्शनम्। इति चतुर्थाऽध्यायस्य चतुर्थः पादः चतुर्थोऽध्यायश्च ॥ अथ पञ्चमोऽध्यायः प्रथमः पादः १. श्रुतिलक्षणमानुपूयं तत्प्रधानत्वात् । २. अर्थाच्च। ३. अनियमोऽन्यत्र । ४. क्रमेण वा नियम्येत क्रत्वेकत्वे तद्गुणत्वात् । ५. अशाब्द इति चेत् । स्याद्वाक्यशब्दत्वात्। ६. अर्थकृते वाऽनुमानं स्यात्, क्रत्वेकत्वे परार्थत्वात्, स्वेन त्वर्थेन सम्बन्धः, तस्मात् स्वशब्दमुच्यते । ७. तथा चान्यार्थदर्शनम्। ८. प्रवृत्त्या तुल्यकालानां गुणानां तदुपक्रमात् । ९. सर्वमिति चेत् । १०. न, अकृतत्वात् । ११. क्रत्वन्तरवदिति चेत् । १२. न, असमवायात् । १३. स्थानाच्चोत्पत्तिसंयोगात् । १४. मुख्यक्रमेण वाऽङ्गानां तदर्थत्वात् । १५. प्रकृतौ तु स्वशब्दत्वाद् यथाक्रमं प्रतीयेत् । १६. मन्त्रतस्तु विरोधे स्यात् प्रयोगरूपसामर्थ्यात् तस्मादुत्पत्तिदेशः सः । १७. तद्वचनात्तु विकृतौ यथाप्रधानं स्यात् । १८. विप्रतिपत्तौ वा प्रकृत्यन्वयाद् यथाप्रकृति । १९. विकृतिः प्रकृतिधर्मत्वात्तत्काला स्याद्यथाशिष्टम् । २०. अपि वा क्रमकालसंयुक्ता सद्यः क्रियेत, तत्र विधेरनुमानात् प्रकृतिधर्मलोपः स्यात् । २१. कालोत्कर्ष इति चेत् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy