SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ विभाग - १, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम् ११. नित्यो वा स्यादर्थवादस्तयोः कर्मण्यसम्बन्धाद् भङ्गित्वाच्चान्तरायस्य । १२. वैश्वानरश्च नित्यः स्यान्नित्यः समानसङ्ख्यत्वात् । १३. पक्षे वोत्पन्नसंयोगात् । १४. षट्चितिः पूर्ववत्स्यात् । १५. ताभिश्च तुल्यसंख्यानात् । १६. अर्थवादोपपत्तेश्च । १७. एकचितिर्वा स्यादपवृक्ते हि चोद्यते निमित्तेन । १८. विप्रतिषेधात्ताभिः समानसङ्ख्यत्वम् । १९. पितृयज्ञः स्वकालत्वादनङ्गं स्यात् । २०. ०. तुल्यवच्च ! प्रसङ्ख्यानात् । २१. विप्रतिषिद्धे च दर्शनात् । २२. पश्वङ्गं रशना स्यात्तदागमे विधानात् । २३. यूपाङ्गं वा तत्संस्कारात् । २४. अर्थवादश्च तदर्थवत् । २५. स्वरुश्चाप्येकदेशत्वात् । २६. निष्क्रयश्च तदङ्गवत् । २७. पश्वङ्गम् वार्थकर्मत्वात् । २८. भक्त्या निष्क्रयवादः स्यात् । २९. दर्शपूर्णमासयोरिज्या: प्रधानान्यविशेषात् । ३०. अपि वाङ्गानि कानिचित् येष्वङ्गत्वेन संस्तुतिः, सामान्यो ह्यभिसम्बन्धः । ३१. तथा चान्यार्थदर्शनम् । ६७ ३२. अवशिष्टं तु कारणं प्रधानेषु गुणस्य विद्यमानत्वात् । ३३. नानुक्तेऽन्यार्थदर्शनं परार्थत्वात् । ३४. पृथक्त्वे त्वभिधानयोर्निवेशः, श्रुतितो व्यपदेशाच्च, तत्पुनर्मु - ख्यलक्षणं यत् फलवत्त्वं तत्सन्निधावसंयुक्तं तदङ्गं स्यात्, भागित्वात् कारण स्याश्रुतेश्चान्यसम्बन्धः । ३५. गुणाश्च नामसंयुक्ता विधीयन्ते, नाङ्गेषूपपद्यन्ते । ३६. तुल्या च करणश्रुतिरन्यैरङ्गाङ्गिसम्बन्धः । ३७. उत्पत्तावाभिसम्बन्धस्तस्मादङ्गोपदेशः स्यात् । ३८. तथा चान्यार्थदर्शनम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy