SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ६६ विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम् - २४. वीते च नियमस्तदर्थम् । २५. सार्वकाम्यसङ्गकामैः प्रकरणात् । २६. फलोपदेशो वा प्रधानशब्दसंयोगात् । २७. तत्र सर्वेऽविशेषात् । २८. योगसिद्धिर्वाऽर्थस्योत्पत्त्यसंयोगित्वात् । २९. समवाये चोदनासंयोगस्यार्थवत्वात् । ३०. कालश्रुतौ काल इति चेत् । ३१. न असमवायात् प्रयोजनेन स्यात् । ३२. उभयार्थमिति चेत् । ३३. न शब्दैकत्वात् । ३४. प्रकरणादिति चेत् । ३५. न उत्पत्तिसंयोगात्। ३६ अनुत्पत्तौ तु कालः स्यात् प्रयोजनेन सम्बन्धात् । ३७. उत्पत्तिकालविषये कालः स्याद्वाक्यस्य तत्प्रधानत्वात् । ३८. फलसंयोगस्त्वचोदिते, न स्यादशेषभूतत्वात् । ३९. अङ्गानां तूपघातसंयोगे निमित्तार्थः । ४०. प्रधानेनाभिसंयोगादङ्गानां मुख्यकालत्वम् । ४१. अप्रवृत्ते तु चोदना तत्सामान्यात् स्वकाले स्यात् ॥ ॥इति चतुर्थोऽध्यायस्य तृतीयः पादः ॥ चतुर्थः पादः १. प्रकरणशब्दसामान्याच्चोदनानामनङ्गत्वम् । २. अपि वाङ्गमनिज्याः स्युस्ततो विशिष्टत्वात् । ३. मध्यस्थं यस्य तन्मध्ये । ४. सर्वासां वा समत्वाच्चोदनातः स्यान्न हि तस्य प्रकरणं देशार्थमुच्यते मध्ये । ५. प्रकरणाविभागे च विप्रतिषिद्धं ह्युभयम् । ६. अपि वा कालमानं स्याददर्शनाद्विशेषस्य ७. फलवद्वोक्तहेतुत्वादितरस्य प्रधानं स्यात् । ८. दधिग्रहो नैमित्तिकः श्रुतिसंयोगात् । ९. नित्यश्च ज्येष्ठशब्दात् । १०. सार्वरूप्याच्च । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy