________________
विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम्
२९. ददातिरूत्सर्गपूर्वकः परस्वत्वेन सम्बन्धः । ३०. विधेः कर्मापवर्गित्वादर्थान्तरे विधिप्रदेशः स्यात् । ३१. अपि वोत्पत्तिसंयोगादर्थसम्बन्धोऽविशिष्टानां प्रयोगैकत्वहेतुः स्यात् ।
॥इति चतुर्थाऽध्यायस्य द्वितीयः पादः ॥
तृतीयः पादः १. द्रव्यसंस्कारकर्मसु परार्थत्वात् फलश्रुतिरर्थवादः स्यात् । २. उत्पत्तेश्चातत्प्रधानत्वात् । ३. फलं तु तत्प्रधानायाम् । ४. नैमित्तिके विकारत्वात् क्रतुप्रधानमन्यत् स्यात् । ५. एकस्य तूभयत्वे संयोगपृथक्त्वम् । ६. शेष इति चेत् । ७. नार्थपृथक्त्वात् । ८. द्रव्याणां तु क्रियार्थानां संस्कारः क्रतुधर्मत्वात् । ९. पृथक्त्वाद् व्यवतिष्ठेत । १०. चोदनायां फलाश्रुतेः, कर्ममात्रं विधीयेत, न ह्यशब्दं प्रतीयते । ११. अपि वाऽऽम्नानसामर्थ्याच्चोदनार्थेन गम्यते, अर्थानां ह्यर्थवत्त्वेन
वचनानि प्रतीयन्ते, अर्थतो ह्यसमर्थनामानन्तर्येऽप्यसम्बन्धः तस्माच्छु
त्येकदेशः। १२. वाक्यार्थश्च गुणार्थवत् । १३. तत्सर्वार्थमनादेशात्। १४. एकं वा चोदनैकत्वात् । १५. स स्वर्गः स्यात्, सर्वान् प्रत्यविशिष्टत्वात् १६. प्रत्ययाच्च । १७. ऋतौ फलार्थवादमङ्गवत् कार्णाजिनिः । १८. फलमात्रेयो निर्देशादश्रुतौ ह्यनुमानं स्यात् १९. अङ्गेषु स्तुतिः परार्थत्वात् । २०. काम्ये कर्मणि नित्यः स्वर्गो यथा यज्ञाले क्रत्वर्थः । २१. वीते च कारणे नियमात् । २२. कामो वा तत्संयोगेन चोद्यते । २३. अङ्गे गुणत्वात्।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org