________________
६४
विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम्
द्वितीयः पादः १. स्वरुस्त्वनेकनिष्पत्तिः स्वकर्मशब्दत्वात् । २. जात्यन्तराच्च शङ्कते । ३. तदेकदेशो वा स्वरुत्वस्य तन्निमित्तत्वात् । ४. शकलश्रुतेश्च । ५. प्रतियूपं च दर्शनात् । ६. आदाने करोति शब्दः। ७. शाखायां तत्प्रधानत्वात् । ८. शाखायां तत्प्रधानत्वादुपवेषेण विभागः स्याद् वैषम्यं तत् । ९. श्रुत्यपायाच्च । १०. हरणे तु जुहोतिर्योगसामान्यात् द्रव्याणां चार्थशेषत्वात् । ११. प्रतिपत्तिर्वा शब्दस्य तत्प्रधानत्वात् । १२. अर्थेऽपीति चेत् । १३. न, तस्यानधिकारादर्थस्य च कृतत्वात् । १४. उत्पत्त्यसंयोगात् प्रणीतानामाज्यवद्विभागः स्यात् । १५. संयवनार्थानां वा प्रतिपत्तिरितरासां तत्प्रधानत्वात् । १६. प्रासनवन्मैत्रावरुणाय दण्डप्रदानं कृतार्थत्वात् । १७. अर्थकर्म वा कर्तृसंयोगात् स्रग्वत् । १८. कर्मयुक्ते च दर्शनात् । १९. उत्पत्तौ येन संयुक्तं तदर्थं तत्, श्रुतिहेतुत्वात्तस्यार्थान्तरगमने शेषत्वात्
प्रतिपत्तिः स्यात् । २०. सौमिके च कृतार्थत्वात् । २१. अर्थकर्म वाऽभिधानसंयोगात्। २२. प्रतिपत्तिर्वा तन्यायत्वाद् देशार्थाऽवभृथश्रुतिः । २३. कर्तृदेशकालानामचोदनं प्रयोगे नित्यसमवायात् । २४. नियमार्था वा श्रुतिः। २५. तथा द्रव्येषु गुणश्रुतिरुत्पत्तिसंयोगात् । २६. संस्कारे च तत्प्रधानत्वात् । २७. यजतिचोदना द्रव्यदेवताक्रियं समुदाये कृतार्थत्वात् । २८. तदुक्तेः श्रवणाज्जुहोतिरासेचनाधिकः स्यात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org