________________
विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम्
१९. चोदनायां त्वनारम्भो विभक्तत्वान्न ह्यन्येन विधीयते । २०. स्याद्वा द्रव्यचिकीर्षायां भावोऽर्थे च गुणभूतत्वाश्रयाद्विगुणीभावः । २१. अर्थे समवैषम्यमतो द्रव्यकर्मणाम्। २२. एकनिष्पत्तेः सर्वं समं स्यात् । २३. संसर्गरसनिष्पत्तेरामिक्षा वा प्रधानं स्यात् । २४. मुख्यशब्दाभिसंस्तवाच्च । २५. पदकर्माप्रयोजकं नयनस्य परार्थत्वात् । २६. अर्थाभिधानकर्म च भविष्यता संयोगस्य तन्निमित्तत्वात्तदर्थो हि विधीयते। २७. पशावनालम्भाल्लोहितशकृतोरकर्मत्वम् । २८. एकदेशद्रव्यस्योत्पत्तौ विद्यमानसंयोगात् २९. निर्देशात्तस्यान्यदर्थादिति चेत् । ३०. न, शेषसन्निधानात् । ३१. कर्मकार्यात् । ३२. लिङ्गदर्शनाच्च । ३३. अभिधारणे विप्रकर्षादनुयाजवत् पात्रभेदः स्यात् । ३४. न वाऽपात्रत्वादपात्रत्वं त्वेकदेशत्वात् । ३५. हेतुत्वाच्च सहप्रयोगस्य । ३६. अभावदर्शनाच्च । ३७. सति सव्यवचनम् । ३८. न तस्येति चेत् । ३९. स्यात्तस्य मुख्यत्वात् । ४०. समानयनं तु मुख्यं स्यात्, लिङ्गदर्शनात् । ४१. वचने हि हेत्वसामर्थ्यम् । ४२. तत्रौत्पत्तिविभक्ता स्यात् । ४३. तत्र जौहवमनुयाजप्रतिषेधार्थम् । ४४. औपभृतं तथेति चेत् । ४५. स्यात् जुहूप्रतिषेधान्नित्यानुवादः । ४६. तदष्टसंख्यं श्रवणात् । ४७. अनुग्रहाच्च जौहवस्य । ४८. द्वयोस्तु हेतुसामर्थ्य श्रवणं च समानयने ।
Jain Education International
ध्यायस्य प्रथमः पादः ॥ Por Personal & Private Use Only
www.jainelibrary.org