________________
६२
विभाग-१, षड्दर्शनसूत्रसंग्रह: - मीमांसादर्शनम्
३७. आधानेऽपि तथेति चेत् । ३८. न अप्रकरणत्वादङ्गस्य तन्निमित्तत्वात् । ३९. तत्काले वा लिङ्गदर्शनात् । ४०. सर्वेषां वाऽविशेषात् । ४१. न्यायोक्ते लिङ्गदर्शनम् । ४२. मांसं तु सवनीयानाम्, चोदनाविशेषात् । ४३. भक्तिरसन्निधावन्याय्येति चेत् । ४४. स्यात् प्रकृतिलिङ्गाद् वैराजवत् ।
॥इति तृतीयाध्यास्याऽष्टमः पादः तृतीयाध्यायश्च ॥
अथ चतुर्थोध्याय :
प्रथमः पादः १. अथातः क्रत्वर्थपुरुषार्थयोजिज्ञासा। २. यस्मिन् प्रीतिः पुरुषस्य तस्य लिप्साऽर्थलक्षणाविभक्तत्वात् । ३. तदुत्सर्गे कर्माणि पुरुषार्थाय, शास्त्रस्यानतिशक्यत्वान्न च द्रव्यं ___ चिकीर्घ्यते, तेनार्थेनाभिसम्बन्धात् क्रियायां पुरुषश्रुतिः । ४. अविशेषात्तु शास्त्रस्य यथाश्रुति फलानि स्युः। ५. अपि वा कारणाऽग्रहणे तदर्थमर्थस्याऽनभिसम्बन्धात् । ६. तथा च लोकभूतेषु । ७. द्रव्याणि त्वविशेषणाऽऽनर्थक्यात् प्रदीयेरन् । ८. स्वेन त्वर्थेन सम्बन्धो द्रव्याणां पृथगर्थत्वात् तस्माद्यथाश्रुतिस्युः । ९. चोद्यन्ते चार्थकर्मसु। १०. लिङ्गदर्शनाच्च। ११. तत्रैकत्वमयज्ञाङ्गमर्थस्य गुणभूतत्वात् । १२. एकश्रुतित्वाच्च १३. प्रतीयते इति चेत् । १४. न अशब्दं तत्प्रमाणत्वात् पूर्ववत् । १५. शब्दवत् तूपलभ्यते, तदागमे हि तद् दृश्यते, यस्य ज्ञानं हि यथाऽन्येषाम् । १६. तद्वच्च लिङ्गदर्शनम् । १७. तथा च लिङ्गम्। १८. आश्रयिष्वविशेषेण भावोऽर्थः प्रतीयेत् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org