SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम् ७. चोदनां प्रति भावाच्च । ८. अतुल्यत्वादसमानविधानाः स्युः । ९. तपश्च फलसिद्धित्वाल्लोकवत् । १०. वाक्यशेषश्च तद्वत् । ११. वचनादितरेषां स्यात् । १२. गुणत्वाच्च वेदेन न व्यवस्था स्यात् । १३. तथा कामोऽर्थसंयोगात् । १४. व्यपदेशादितरेषां स्यात् । १५. मन्त्राश्चाऽकर्मकारणास्तद्वत् । १६. विप्रयोगे च दर्शनात् । १७. द्वयाम्नातेषुभौ द्वयाम्नानस्याऽर्थवत्त्वात् । १८. ज्ञाते च वाचनं, न ह्यविद्वान् विहितोऽस्ति १९. याजमाने समाख्यानात् कर्माणि याजमानं स्युः । २०. अध्वर्युर्वा तदर्थो हि, न्यायपूर्वं समाख्यानम् । २१. विप्रतिषेधे करणः, समवायविशेषादितरमन्यस्तेषां यतो विशेषः स्यात् । २२. प्रैषेषु च पराधिकारात् । २३. अध्वर्युस्तु दर्शनात् । २४. गौणो वा कर्मसामान्यात् । २५. ऋत्विक्फलं करणेष्वर्थवत्त्वात् । २६. स्वामिनो वा तदर्थत्वात् । २७. लिङ्गदर्शनाच्च । २८. कर्मार्थं तु फलं तेषां स्वामिनं प्रत्यर्थवत्त्वात् स्यात् । २९. व्यपदेशाच्च । ३०. द्रव्यसंस्कारः प्रकरणाऽविशेषात् सर्वकर्मणाम् । ३१. निर्देशात्तु विकृतावपूर्वस्याऽनधिकारः । ३२. विरोधे च श्रुतिविशेषाद्व्यक्तः शेषे । ३३. अपनयस्त्वेकदेशस्य विद्यमानसंयोगात् । ३४. विकृतौ सर्वार्थः शेषः प्रकृतिवत् । ३५. मुख्यार्थो वाऽङ्गस्याचोदितत्वात् । ३६. सन्निधानविशेषादसम्भवे तदङ्गानाम् । Jain Education International ६१ For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy