________________
विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम्
३०. उपगाश्च लिङ्गदर्शनात् । ३१. विक्रयी त्वन्यः कर्मणोऽचोदितत्वात् । ३२. कर्मकार्यात् सर्वेषामृत्विक्त्वमविशेषात् । ३३. न वा परिसङ्ख्यानात् । ३४. पक्षेणेति चेत् । ३५. न सर्वेषामधिकारः। ३६. नियमस्तु दक्षिणाभिः श्रुतिसंयागात् । ३७. उक्त्वा च यजमानत्वं तेषां दीक्षाविधानात् । . ३८. स्वामिसप्तदशाः कर्मसामान्यात्। ३९. ते सर्वार्थाः प्रयुक्तत्वात्, अग्नयश्च स्वकालत्वात् । ४०. तत्संयोगात् कर्मणो व्यवस्था स्यात्, संयोगस्यार्थवत्त्वात् । ४१. तस्योपदेशसमाख्यानेन निर्देशः । ४२. तद्वच्च लिङ्गदर्शनम्। ४३. प्रैषाऽनुवचनं मैत्रावरुणस्योपदेशात् । ४४. पुरोऽनुवाक्याधिकारो वा प्रैषसन्निधानात् ४५. प्रातरनुवाके च होतृदर्शनात् । ४६. चमसांश्चमसाध्वर्यवः । ४७. अध्वर्युर्वा तन्न्यायत्वात् । ४८. चमसे चान्यदर्शनात् । ४९. अशक्तौ ते प्रतीयेरन् । ५०. वेदोपदेशात् पूर्ववद् वेदान्यत्वे यथोपदेशं स्युः । ५१. तद्गुणाद्वा स्वधर्मः स्यादधिकारसामर्थ्यात् सहाङ्गैरव्यक्तः शेषे ।
॥इति तृतीयाऽध्यायस्य सप्तमः पादः ॥
अष्टमः पादः १. स्वामिकर्म परिक्रयः कर्मणस्तदर्थत्वात् । २. वचनादितरेषां स्यात् । ३. संस्कारास्तु पुरुषसामर्थ्य यथावेदं कर्मवद्व्यवतिष्ठेरन् । ४. याजमानास्तु तत्प्रधानत्वात् कर्मवत् । ५. व्यपदेशाच्च । ६. गुणत्वेन तस्य निर्देशः । ..
Jain Educson International
For Personal & Private Use Only
www.jainelibrary.org