SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम् सप्तमः पादः १. प्रकरणविशेषादसंयुक्तं प्रधानस्य । २. सर्वेषां वा शेषत्वस्याऽतत्प्रयुक्तत्वात् । ३. आरादपीति चेत् । ४. न तद्वाक्यं हि तदर्थत्वात् । ५. लिङ्गदर्शनाच्च । ६. फलसंयोगात्तु स्वामियुक्तं प्रधानस्य । ७. चिकीर्षया च संयोगात् । ८. तद्युक्ते तु फलश्रुतिः तस्मात् सर्वचिकीर्षा स्यात् । ९. तथाऽभिधानेन । १०. गुणाऽभिधानात् सर्वार्थमभिधानम् । ११. दीक्षादक्षिणं तु वचनात् प्रधानस्य । १२. निवृत्तिदर्शनाच्च । १३. तथा यूपस्य वेदिः । १४. देशमात्रं वा शिष्येणैकवाक्यत्वात् । १५. सामिधेनीस्तदन्वाहुरिति हविर्धानयोर्वचनात् सामिधेनीनाम् । १६. देशमात्रं वा प्रत्यक्षं ह्यर्थकर्म सोमस्य । १७. समाख्यानं च तद्वत् । १८. शास्त्रफलं प्रयोक्तरि तल्लक्षणत्वात् तस्मात् स्वयं प्रयोगे स्यात् । १९. उत्सर्गे तु प्रधानत्वाच्छेषकारी प्रधानस्य, तस्मादन्यः स्वयं वा स्यात् । २०. प्रधानत्वात् शेषकारी प्रधानस्य, तस्मादन्यः स्वयं वा स्यात् । २१. अन्यो वा स्यात् परिक्रयाम्नानाद् विप्रतिषेधात् प्रत्यगात्मनि । २२. तत्रार्थात् कर्तृपरिमाणं स्यादनियमो ऽविशेषात् । २३. अपि वा श्रुतिभेदात् प्रतिनामधेयं स्युः । २४. एकस्य कर्मभेदादिति चेत् । न, उत्पत्तौ हि । २५. चमसाध्वर्यवश्च तैर्व्यपदेशात् । २६. उत्पतौ तु बहुश्रुतेः । २७. दशत्वं लिङ्गदर्शनात् । २८. शमिता च शब्दभेदात् । २९. प्रकरणाद् वोत्पत्त्यसंयोगात् । Jain Education International For Personal & Private Use Only ५९ www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy