________________
विभाग- १, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम्
३८. कालस्तु स्यादचोदनात् । ३९. अनर्थकश्च कर्मसंयोगे ।
४०. अवचनाच्च स्वशब्दस्य ।
४१. कालश्चेत् सन्नयत्पक्षे तल्लिङ्गसंयोगात् । ४२. कालार्थत्वाद्वोभयोः प्रतीयेत् ।
४३. प्रस्तरे शाखाश्रयणवत् । ४४. कालविधिर्वोभयोः विद्यमानत्वात् । ४५. अतत्संस्कारार्थत्वाच्च । ४६. तस्माच्च विप्रयोगे स्यात् । ४७. उपवेषश्च पक्षे स्यात् ।
॥ इति षष्ठाध्यायस्य चतुर्थः पादः ॥
पञ्चमः पादः
१. अभ्युदये कालापराधादिज्याचोदना स्यात्, यथा पञ्चशरावे ।
२. अपनयो वा विद्यमानत्वात् ।
३. तद्रूपत्वाच्च शब्दानाम् । ४. आतञ्चनाभ्यासस्य दर्शनात् ।
५. अपूर्वत्वाद्विधानं स्यात् ।
६. पयोदोषात् पञ्चशरावेऽदुष्टं हि कारणम् ।
७. सान्याय्येऽपि तथेति चेत् । ८. न तस्यादुष्टत्वादविशिष्टं हि कारणम् । ९. लक्षणार्था भृतश्रुतिः ।
१०. उपांशुयागेऽवचनाद् यथा प्रकृति । ११. अपनयो वा प्रवृत्त्या यथेतरेषाम् । १२. निरुप्ते स्यात्तत्संयोगात् ।
१३. प्रवृत्ते वा प्रापणान्निमित्तस्य ।
१४. लक्षणमात्रमितरत् ।
१५. तथा चान्यार्थदर्शनम् ।
७९
१६. अनिरुप्तेऽभ्युदिते प्राकृतीभ्यो निर्वपेदित्याश्मरथ्यस्तण्डुलभूतेष्वपनयात् । १७. व्यूर्ध्वभाग्भ्यस्त्वालेखनस्तत्कारित्वाद् देवतापनयस्य ।
१८. विनिरुप्ते न मुष्टीनामपनयस्तद्गुणत्वात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org