________________
विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम्
१९. अप्राकृतेन हि संयोगस्तत्स्थानीयत्वात् । २०. अभावाच्चेतरस्य स्यात् । २१. सान्नाय्यसंयोगात् सन्नयतः स्यात् । २२. औषधसंयोगाद वोभयोः । २३. वैगुण्यान्नेति चेत् । २४. न अतत्संस्कारत्वात् । २५. साभ्युत्थाने विश्वजित्नीते विभागसंयोगान् । २६. प्रवृत्ते वा प्रापणानिमित्तस्य । २७. आदेशार्थेतरा श्रुतिः। २८. दीक्षापरिमाणे यथाकाम्यविशेषात् । २९. द्वादशाहस्तु लिङ्गात् स्यात् । ३०. पौर्णमास्यामनियमोऽविशेषात् । ३१. आनन्तर्यात् तु चैत्री स्यात् । ३२. माघी वैकाष्टकाश्रुतेः। ३३. अन्या अपीति चेत् । ३४. न भक्तित्वादेषा हि लोके । ३५. दीक्षापराधे चानुग्रहात् । ३६. उत्थाने चानुप्ररोहात्। ३७. अस्यां च सर्वलिङ्गानि । ३८. दीक्षाकालस्य शिष्टत्वादतिक्रमे नियतानामनुत्कर्षः प्राप्तकालत्वात् । ३९. उत्कर्षो वा दीक्षितत्वादविशिष्टं हि कारणम् । ४०. तत्र प्रतिहोमो न विद्यते, यथा पूर्वेषाम् । ४१. कालप्राधान्याच्च । ४२. प्रतिषेधाच्चोर्ध्वमवभृथादिष्टः । ४३. प्रतिहोमश्चेत् सायमग्निहोत्रप्रभृतीनि हूयेरन् । ४४. प्रातस्तु षोडशिनि। ४५. प्रायश्चित्तमधिकारे सर्वत्र दोषसामान्यात् । ४६. प्रकरणे वा शब्दहेतुत्वात् । ४७. अतद्विकारश्च । ४८. व्यापन्नस्याप्सु गतौ यदभोज्यमार्याणां तत् प्रतीयेत ।
४८.व्यापन्नस्या Jain Education International
ज्यमाय्या For Personal & Private Use Only
www.jainelibrary.org