SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम् ४९. विभागश्रुतेः प्रायश्चित्तं यौगपद्ये न विद्यते । ५०. स्याद्वा प्राप्तनिमित्तत्वात् कालमात्रमेकम्। ५१. तत्र विप्रतिषेधाद्विकल्पः स्यात् । ५२. प्रयोगान्तरे वोभयानुग्रहः स्यात् । ५३. न चैकसंयोगात् । ५४. पौर्वापर्ये पूर्वदौर्बल्यं प्रकृतिवत् । ५५. याद्गाता जघन्यः स्यात् पुनर्यज्ञे सर्ववेदसंदद्याद् यथेतरस्मिन् । ५६. अहर्गणे यस्मिन्नपच्छेदस्तदावर्तेत कर्मपृथक्त्वात् । ॥ इति षष्ठाध्यायस्य पञ्चमः पादः ॥ षष्ठः पादः १. सन्निपातेऽवैगुण्यात् प्रकृतिवत् तुल्यकल्पा यजेरन् । २. वचनाद्वा शिरोवत् स्यात् । ३. न वाऽनारभ्यवादत्वात् । ४. स्याद्वा यज्ञार्थत्वादौदुम्बरीवत् । ५. न तत्प्रधानत्वात् । ६. औदम्बाः परार्थत्वात्कपालवत् । ७. अन्येनापीति चेत् । ८. न एकत्वात्तस्य चानधिकारात् शब्दस्य चाविभक्तत्वात् । ९. सन्निपातात्तु निमित्तविघातः स्याबृहद्रथन्तरवद्विभक्त शिष्टत्वात् वसिष्ठनिर्वयें। १०. अपि वा कृत्स्नसंयोगादविघातः प्रतीयेत, स्वामित्वेनाभिसम्बन्धात् । ११. साम्नोः कर्मवृद्ध्यैकदेशेन संयोगे गुणत्वेनाभिसम्बन्धः, तस्मात्तत्र विघातः स्यात् । १२. वचनात्तु द्विसंयोगः, तस्मादेकस्य पाणित्वम् । १३. अर्थाभावात्तु नैवं स्यात् । १४. अर्थानाञ्च विभक्तत्वाद् न तच्छुतेन सम्बन्धः । १५. पाणेः प्रत्यङ्गभावाद-सम्बन्धः प्रतीयेत । १६. सत्राणि सर्ववर्णानामविशेषात्। १७. लिङ्गदर्शनाच्च । १८. ब्राह्मणानां वेतरयोरात्विज्याभावात् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy