________________
८२
विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम्
१९. वचनादिति चेत् । २०. न स्वामित्वं हि विधीयते । २१. गार्हपते वा स्यान्नामाविप्रतिषेधात् । २२. न वा कल्पविरोधात् । २३. स्वामित्वादितरेषामहीने लिङ्गदर्शनम् । २४. वासिष्ठानां वा ब्रह्मत्वस्य नियमात् । २५. सर्वेषां वा प्रतिप्रसवात् । २६. विश्वामित्रस्य होत्रनियमाद् भृगुशुनकवसिष्ठानाम् अनधिकारः। २७. विहारस्य प्रभुत्वादनग्नीनामपि स्यात् । २८. सारस्वते च दर्शनात् । २९. प्रायश्चित्तविधानाच्च । ३०. साग्नीनां वेष्टिपूर्वत्वात् । ३१. स्वार्थेन च प्रयुक्तत्वात् । ३२. सन्निवापं च दर्शयति । ३३. जुह्लादीनामप्रयुक्तत्वाद् सन्देहे यथाकामी प्रतीयेत । ३४. अपि वाऽन्यानि पात्राणि साधारणानि कुर्वीरन् विप्रतिपधाच्छास्त्र
कृतत्वात् । ३५. प्रायश्चित्तमापदि स्यात् । ३६. पुरुषकल्पेन वा विकृत्तौ कर्तृनियमः स्याद्यज्ञस्य तद्गुणत्वादभावादितरान्
प्रत्येकस्मिन्नधिकारः स्यात् । ३७. लिङ्गाच्चेज्याविशेषवत् । ३८. न वा संयोगपृथक्त्वाद् गुणस्वेज्याप्रधानत्वादसंयुक्ता हि चोदना । ३९. इज्यायां तद्गुणत्वाद्विशेषेण नियम्येत ।
॥ इति षष्ठाध्यायस्य षष्ठः पादः ।।
सप्तमः पादः १. स्वदाने सर्वमविशेषात् । २. यस्य वा प्रभुः स्यादितरस्याऽशक्यत्वात् । ३. न भूमिः स्यात् सर्वान् प्रत्यविशिष्टत्वात् । ४. अकार्यत्वाच्च ततः पुनर्विशेषः स्यात् । ५. नित्यत्वाच्चानित्यैर्नास्ति सम्बन्धः ।
For Personal & Private Use Only
www.jainelibrary.org