________________
विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम्
६. शूद्रश्च धर्मशास्त्रत्वात्। ७. दक्षिणाकाले यत्स्वं तत्प्रतीयेत तदानसंयोगात् । ८. अशेषत्वात्तदन्तः स्यात् कर्मणो द्रव्यसिद्धित्वात् । ९. अपि वा शेषकर्म स्यात् क्रतोः प्रत्यक्षशिष्टत्वात् । १०. तथा चान्यार्थदर्शनम्। ११. अशेषं तु समञ्जसादानेन शेषकर्म स्यात् । १२. नादानस्यानित्यत्वात् । १३. दीक्षासु तु विनिर्देशादकत्वर्थेन संयोगस्तस्मादविरोधः स्यात् । १४. अहर्गणे च तद्धर्मः स्यात् सर्वेषामविशेषात् । १५. द्वादशशतं वा प्रकृतिवत् । १६. अतद्गुणत्वात् तु नैवं स्यात् । १७. लिङ्गदर्शनाच्च । १८. विकारः सन्नुभयतोऽविशेषात् । १९. अधिकं वा प्रतिप्रसवात् । २०. अनुग्रहाच्च पादवत् । २१. अपरिमिते शिष्टस्य सङ्ख्याप्रतिषेधस्तच्छृतित्वात् । २२. कल्पान्तरं वा तुल्यवत्प्रसङ्ख्यानात् । २३. अनियमोऽविशेषात् ।। २४. अधिकं वा स्याद् बह्वर्थत्वादितरेषां सन्निधानात् । २५. अर्थवादश्च तद्वत् । २६. परकृतिपुराकल्पं च मनुष्यधर्मः स्यादर्थाय ह्यनुकीर्तनम् । २७. तद्युक्ते च प्रतिषेधात् । .. २८. निर्देशाद्वा तद्धर्मः स्यात् पञ्चावत्तवत् । २९. विधौ तु वेदसंयोगादुपदेशः स्यात् । ३०. अर्थवादो वा विधिशेषत्वात्तस्मानित्यानुवादः स्यात् । ३१. सहस्रसंवत्सरं तदायुषामसम्भवात् मनुष्येषु । ३२. अपि वा तदधिकारान्मनुष्यधर्मः स्यात् । ३३. नासामर्थ्यात्। ३४. सम्बन्धादर्शनात्। ३५. स कुलकल्पः स्यादिति कार्णाजिनिरेकस्मिन्नसम्भवात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org