SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ८४ विभाग- १, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम् ३६. अपि वा कृत्स्नसंयोगादेकस्यैव प्रयोगः स्यात् । ३७. विप्रतिषेधात्तु गुण्यन्तरः स्यादिति लाबुकायनः । ३८. संवत्सरो विचालित्वात् । ३९. सा प्रकृतिः स्यादधिकारात् । ४०. अहानि वाऽभिसंख्यत्वात् । ॥ इति षष्ठाध्यायस्य सप्तमः पादः ॥ अष्टमः पादः १. इष्टिपूर्वत्वादक्रतुशेषो होमः संस्कृतेष्वग्निषु स्यादपूर्वोऽप्याधानस्य सर्वशेषत्वात् । २. इष्टित्वेन तु संस्तवश्चतुर्होतॄनसंस्कृतेषु दर्शयति । ३. उपदेशस्त्वपूर्वत्वात् । ४. स सर्वेषामविशेषात् । ५. अपि वा क्रत्वभावादनाहिताग्नेरशेषभूतनिर्देश: । ६. जपो वाऽनग्निसंयोगात् । ७. इष्टत्वेन तु संस्तुते होमः स्यादनारभ्याग्निसंयोगादितरेषामवाच्यत्वात् । ८. उभयोः पितृयज्ञवत् । ९. निर्देशो वाऽनाहिताग्नेरनारभ्याग्निसंयोगात् । १०. पितृयज्ञे संयुक्तस्य पुनर्वचनम् । ११. उपनयन्नादधीत होमसंयोगात् । १२. स्थपतीष्टिवल्लौकिके वा विद्याकर्मानुपूर्वत्वात् । १३. आधानं च भार्यासंयुक्तम् । १४. अकर्म चोर्ध्वमाधानात्तत्समवायो हि कर्मभिः । १५. श्राद्धवदिति चेत् । १६. न श्रुतिविप्रतिषेधात् । १७. सर्वार्थत्वाच्च पुत्रार्थो न प्रयोजयेत् । १८. सोमपानात्तु प्रापणं द्वितीयस्य तस्मादुपयच्छेत् । १९. पितृयज्ञे तु दर्शनात् प्रागाधानात् प्रतीयेत २०. स्थपतीष्टिः प्रयाजवदग्न्याधेयं प्रयोजयेत्तादर्थ्याच्चापवृज्येत् । २१. अपि वा लौकिकेऽग्नौ स्यादाधानस्यासर्वशेषत्वात् । २२. अवकीर्णिपशुश्च तद्वदाधानस्याप्राप्तकालत्वात् । २३. उदगयनपूर्वपक्षाहः पुण्याहेषु दैवानि स्मृतिरूपान्यार्थदर्शनात् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy