________________
विभाग- १, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम्
२४. अहनि च कर्मसाकल्यम् । २५. इतरेषु तु पित्र्याणि ।
२६. याच्ञाक्रयणमविद्यमाने लोकवत् । २७. नियतं वार्थवत्त्वात् स्यात् । २८. तथा भक्षप्रैषाच्छादनसंज्ञप्तहोमद्वेषम् । २९. अनर्थकं त्वनित्यं स्यात् । ३०. पशुचोदनायामनियमो ऽविशेषात् । ३१. छागो वा मन्त्रवर्णात् ।
३२. न चोदनाविरोधात् ।
३३. आर्षेयवदिति चेत् ।
३४. न तत्र ह्यचोदितत्त्वात् ।
३५. नियमो वैकार्थ्यं ह्यर्थभेदाद् भेदः पृथक्त्वेनाभिधानात् । ३६. अनियमो वार्थान्तरत्वादन्यत्वं व्यतिरेकशब्दभेदाभ्याम् ।
३७. रूपाल्लिङ्गाच्च ।
३८. छागे न कर्माख्या रूपलिङ्गाभ्याम् ।
३९. रूपान्यत्वान्न जातिशब्दः स्यात् । ४०. विकारो नोत्पत्तिकत्वात् । ४१. स नैमित्तिकः पशोर्गुणस्याचोदितत्वात्। ४२. जातेर्वा तत्प्रायवचनार्थवत्त्वाभ्याम् ।
इति षष्ठाध्यायस्याष्टमः पादः समाप्तश्च षष्ठोऽध्यायः अथ सप्तमोऽध्यायः
प्रथमः पादः
१. श्रुतिप्रमाणत्वाच्छेषाणां मुख्यभेदे यथाधिकारं भावः स्यात् । २. उत्पत्त्यर्थाविभागाद्वा सत्त्ववदैकधर्म्यं स्यात् ।
३. चोदनाशेषभावाद्वा तद्भेदाद्व्यवतिष्ठेरन् उत्पत्तेर्गुणभूतत्वात् ।
४. सत्त्वे लक्षणसंयोगात् सार्वत्रिकं प्रतीयेत् ।
५. अविभागात्तु नैवं स्यात् ।
६. द्व्यर्थत्वं च विप्रतिषिद्धम् ।
८५
७. उत्पत्तौ विध्यभावाद्वा चोदनायां प्रवृत्तिः स्यात्, ततश्च कर्मभेदः स्यात् ।
८. यदि वाऽप्यभिधानवत् सामान्यात् सर्वधर्मः स्यात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org