SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम् ९. अर्थस्य त्वविभक्तत्वात्तथा स्यादभिधानेषु पूर्ववत्त्वात् प्रयोगस्य, कर्मणः शब्दभाव्यत्वाद्विभागाच्छेषाणामप्रवृत्तिः स्यात् । ८६ १०. स्मृतिरिति चेत् । ११. न पूर्ववत्त्वात् । १२. अर्थस्य शब्दभाव्यत्वात् प्रकरणनिबन्धनाच्छब्दादेवान्यत्र भावः स्यात् । १३. समाने ऽपूर्ववत्त्वादुत्पन्नाधिकारः स्यात् । १४. श्येनस्येति चेत् । १५. न असन्निधानात् । १६. अपि वा यद्यपूर्वत्वादितरदधिकार्थे ज्यौतिष्टोमिकाद्विधेस्तद्वाचकं समानं स्यात् । १७. पञ्चसञ्चरेष्वर्थवादातिदेशः सन्निधानात् । १८. सर्वस्य वैकाशब्द्यात् । १९. लिङ्गदर्शनाच्च । २०. विहिताम्नानान्नेति चेत् । २१. न इतरार्थत्वात् । २२. एककपालैन्द्राग्नौ च तद्वत् । २३. एककपालानां वैश्वदेविकः प्रकृतिराग्रयणे सर्वहोमापरिवृत्तिदर्शना दवभृथे च सकृद् द्व्यवदानस्य वचनात् । ॥ इति सप्तमाध्यायस्य प्रथमः पादः ॥ द्वितीयः पादः १. साम्नोऽभिधानशब्देन प्रवृत्तिः स्याद्यथाशिष्टम् । २. शब्दैस्त्वर्थविधित्वादर्थान्तरेऽप्रवृत्तिः स्यात् पृथग्भावात् क्रियाया ह्यभिसम्बन्धः। ३. स्वार्थे वा स्यात्प्रयोजनं क्रियायास्तदङ्गभावेनोपदिश्येरन् । ४. शब्दमात्रमिति चेत् । ५. न औत्पत्तिकत्वात् । ६. शास्त्रं चैवमनर्थकं स्यात् । ७. स्वरस्येति चेत् । ८. न अर्थाभावाच्छ्रुतेरसम्बन्धः । ९. स्वरस्तूत्पत्तिषु स्यान्मात्रावर्णाविभक्तत्वात् । १०. लिङ्गदर्शनाच्च । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy