________________
विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम्
११. अश्रुतेस्तु विकारस्योत्तरासु यथाश्रुति । १२. शब्दानां चासामञ्जस्यम् । १३. अपि तु कर्मशब्दः स्याद्भावोऽर्थः प्रसिद्धग्रहणत्वाद्विकारो ह्यविशिष्टोऽन्यैः । १४. अद्रव्यं चापि दृश्यते । १५. तस्य च क्रिया ग्रहणार्था, नानार्थेषु विरूपित्वादर्थो ह्यासामलौकिको
विधानात् । १६. तस्मिन् संज्ञाविशेषाः स्युर्विकारपृथक्त्वात् । १७. योनिशस्याश्च तुल्यवदितराभिर्विधीयन्ते । १८. अयोनौ चापि दृश्यतेऽतथायोनिः । १९. ऐकाक्षं नास्ति वैरूप्यमिति चेत् । २०. स्यादर्थान्तरेष्वनिष्पत्तेर्यथा पाके । २१. शब्दानाञ्च सामञ्जस्यम्।
॥इति सप्तमाध्यायस्य द्वितीयः पादः ।।
___तृतीयः पादः १. उक्तं क्रियाभिधानं तच्छृतावन्यत्र विधिप्रदेशः स्यात् । २. अपूर्वे वापि भागित्वात् । ३. नाम्नस्त्वौत्पत्तिकत्वात् । ४. प्रत्यक्षाद् गुणसंयोगात् क्रियाभिधानं स्यात् तदभावेऽप्रसिद्ध स्यात् । ५. अपि वा सत्रकर्मणि गुणार्थेषा श्रुतिः स्यात् । ६. विश्वजिति सर्वपृष्ठे तत्पूर्वकत्वात् ज्योतिष्टोमिकानि पृष्ठानि अस्ति च
पृष्ठशब्दः। ७. षडहाद्वा तत्र हि चोदनाः । ८. लिङ्गाच्च । ९. उत्पन्नाधिकारी ज्योतिष्टोमः । १०. द्वयोविधिरिति चेत् । ११. न व्यर्थत्वात्सर्वशब्दस्य । १२. तथावभृथः सोमात्। १३. प्रकृतेरिति चेत् । १४. न भक्तित्वात् । १५. लिङ्गदर्शनाच्च ।
Jain Education
temnational
For Personal & Private Use Only
www.jainelibrary.org