SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ विभाग- १, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम् १६. द्रव्यादेशे तद्द्रव्यं श्रुतिसंयागात् पुरोडाशस्त्वनादेशे तत्प्रकृतित्वात् । १७. गुणविधिस्तु न गृह्णीयात् समत्वात् । १८. निर्मन्थ्यादिषु चैवम् १९. प्रणयनं तु सौमिकमवाच्यं हीतरत् । २०. उत्तरवेदिप्रतिषेधश्च तद्वत् । २१. प्राकृतं वाऽनामत्वात् । २२. परिसङ्ख्यार्थं श्रवणं गुणार्थमर्थवादो वा २३. प्रथमोत्तमयोः प्रणयनमुत्तरवेदिविप्रतिषेधात् । २४. मध्यमयोर्वा गत्यर्थवादात् । ८८ २५. औत्तरवेदिको नारभ्यवादप्रतिषेधः । २६. स्वरसामैककपालामिक्षं च लिङ्गदर्शनात् । २७. चोदनासामान्याद्वा । २८. कर्मजे कर्म यूपत् I २९. रूपं वाऽशेषभूतत्वात् । ३०. विशये लौकिकं स्यात्, सर्वार्थत्वात् । ३१. न वैदिकमर्थनिर्देशात् । ३२. तथोत्पत्तिरितरेषां समत्वात् । ३३. संस्कृतं स्यात् तच्छब्दत्वात् । ३४. भक्त्या वाऽयज्ञशेषत्वाद् गुणानामभिधानत्वाद् । ३५. कर्मणः पृष्ठशब्दः स्यात् तथाभूतोपदेशात् । ३६. अभिधानोपदेशाद्वा विप्रतिषेधात् द्रव्येषु पृष्ठशब्दः स्यात् । ॥ इति सप्तमाध्यायस्य तृतीयः पादः ॥ चतुर्थः पादः १. इति कर्तव्यताविधेर्यजतेः पूर्ववत्त्वम् । २. स लौकिकः स्याद् दृष्टप्रवृत्तित्वात् । ३. वचनात्तु ततोऽन्यत्वम् । ४. लिङ्गेन वा नियम्येत लिङ्गस्य तद् गुणत्वात् । ५. अपि वाऽन्यायपूर्वत्वाद्यत्र नित्यानुवादवचनानि स्युः । ६. मिथोविप्रतिषेधाच्च गुणानां यथार्थकल्पना स्यात् । ७. भागित्वात्तु नियम्येत गुणानामभिधानत्वा-त्सम्बन्धादभिधानवद् यथा धेनुः किशोरेण । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy