________________
विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम्
८. उत्पत्तीनां समत्वाद्वा यथाधिकारं भावः स्यात् । ९. उत्पत्तिशेषवचनं च विप्रतिषिद्धमेकस्मिन् । १०. विध्यन्तो वा प्रकृतिवच्चोदनायां प्रवर्तेत, तथा हि लिङ्गदर्शनम् । ११. लिङ्गहेतुत्वादलिङ्गे लौकिकं स्यात् ।। १२. लिङ्गस्य पूर्ववत्त्वाच्चोदनाशब्दसामान्यादेकेनापि निरूप्येत यथा
स्थालीपुलाकेन। १३. द्वादशाहिकमहर्गणे तत्प्रकृतित्वादेकाहिकमधिकागमात्तदाख्यं स्यादेकाहवत्। १४. लिङ्गाच्च । १५. न वा क्रत्वभिधानादधिकानामशब्दत्वम् । १६. लिङ्ग सङ्घातधर्मः स्यात्तदर्थापत्तेर्द्रव्यवत् । १७. न वार्थधर्मत्वात् सङ्घातस्य गुणत्वात् । १८. अर्थापत्तेर्द्रव्येषु धर्मलाभः स्यात् । १९. प्रवृत्त्या नियतस्य लिङ्गदर्शनम् । २०. विहारदर्शनं विशिष्टस्यानारभ्यवादानां प्रकृत्यर्थत्वात् ।
॥ इति सप्तमाध्यायस्य चतुर्थः पादः ॥ अथ अष्टमोऽध्यायः
प्रथमः पादः १. अथ विशेषलक्षणम्। २. यस्य लिङ्गमर्थसंयोगादभिधानवत् । ३. प्रवृत्तित्वादिष्टेः सोमे प्रवृत्तिः स्यात् । ४. लिङ्गदर्शनाच्च । ५. कृत्स्नविधानाद्वाऽपूर्वत्वम् । ६. घुगभिधारणाभावस्य च नित्यानुवादात् ७. विधिरिति चेत् । ८. न वाक्यशेषत्वात् । ९. शङ्कते चानुपोषणात्। १०. दर्शनमैष्टिकानां स्यात् । ११. इष्टिषु दर्शपूर्णमासयोः प्रवृत्तिः स्यात् । १२. पशौ च लिङ्गदर्शनात् । १३. दैक्षस्य चेतरेषु ।
For Personal & Private Use Only
www.jainelibrary.org