________________
विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम्
४२. तत्रार्थात् प्रतिवचनम् । ४३. तदेकपात्राणां समावायात् । ४४. याज्यापनयेनापनीतो भक्षः प्रवरवत् । ४५. यष्टुर्वा कारणागमात् । ४६. प्रवृत्तत्वात् प्रवरस्यानपायः । ४७. फलचमसो नैमित्तिको भक्षविकारः श्रुतिसंयोगात् । ४८. इज्याविकारो वा संस्कारस्य तदर्थत्वात् । ४९. होमात्। ५०. चमसैश्च तुल्यकालत्वात् । ५१. लिङ्गदर्शनाच्च । ५२. अनुप्रसर्पिषु सामान्यात् । ५३. ब्राह्मणा वा तुल्यशब्दत्वात् ।
॥ इति तृतीयाऽध्यायस्य पञ्चमः पादः ॥
षष्ठः पादः १. सर्वार्थमप्रकरणात्। २. प्रकृतौ वाऽद्विरुक्तत्वात् । ३. तद्वर्जं तु वचनप्राप्ते । ४. दर्शनादिति चेत् । ५. न चोदनैकार्थ्यात् । ६. उत्पत्तिरिति चेत् । ७. न, तुल्यत्वात् । ८. चोदनार्थकात्या॑त्तु मुख्यविप्रतिषेधात् प्रकृत्यर्थः । ९. प्रकरणविशेषात्तु विकृतौ विरोधि स्यात्। १०. नैमित्तिकं तु प्रकृतौ, तद्विकारः संयोगविशेषात् । ११. इष्ट्यर्थमग्न्याधेयं प्रकरणात् । १२. न वा तासां तदर्थत्वात् । १३. लिङ्गदर्शनाच्च । १४. तत्प्रकृत्यर्थं यथान्येऽनारभ्यवादाः । १५. सर्वार्थं वाऽऽधानस्य स्वकालत्वात् । १६. तासामग्निः प्रकृतितः प्रयाजवत् स्यात् ।
Jain Education International
www.jainelibrary.org