________________
विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम्
११. जातिविशेषात् परम् । १२. अन्त्यमरेकार्थे । १३. साकम्प्रस्थाय्ये स्विष्टकृदिञ्च तद्वत् । १४. सौत्रामण्यां च ग्रहेषु। १५. तद्वच्च शेषवचनम् । १६. द्रव्यैकत्वे कर्मभेदात् प्रतिकर्म क्रियेरन् । १७. अविभागाच्च शेषस्य, सर्वान् प्रत्यविशिष्टत्वात् । १८. ऐन्द्रवायवे तु वचनात् प्रतिकर्म भक्षः स्यात् । १९. सोमेऽवचनाद्भक्षो न विद्यते । २०. स्याद् वाऽन्यार्थदर्शनात्।। २१. वचनानि त्वपूर्वत्वात्तस्माद् यथोपदेशं स्युः। २२. चमसेषु समाख्यानात् संयोगस्य तन्निमित्तत्वात् । २३. उद्गातृचमसमेकः श्रुतिसंयोगात्। २४. सर्वे वा सर्वसंयोगात् ।। २५. स्तोत्रकारिणां वा तत्संयोगाद् बहुश्रुतेः। २६. सर्वे तु वेदसंयोगात् कारणादेकदेशे स्यात् । २७. ग्रावस्तुतो भक्षो न विद्यते अनाम्नानात् । २८. हारियोजने वा सर्वसंयोगात्।। २९. चमसिनां वा सन्निधानात् । ३०. सर्वेषां तु विधित्वात्तदर्था चमसिश्रुतिः। ३१. वषट्काराच्च भक्षयेत् । ३२. होमाऽभिषवाभ्याञ्च। ३३. प्रत्यक्षोपदेशाच्चमसानामव्यक्तः शेषे । ३४. स्याद्वा कारणभावादनिर्देशश्चमसानां कर्तृस्तद्वचनत्वात् । ३५. चमसे चान्यदर्शनात् । ३६. एकपात्रे क्रमादध्वर्युः पूर्वो भक्षयेत् । ३७. होता वा मंत्रवर्णात् । ३८. वचनाच्च । ३९. कारणानुपूर्व्याच्च । ४०. वचनादनुज्ञातभक्षणम्। ४१. तदुपहूत उपह्वस्वेत्यनेन अनुज्ञापयेल्लिङ्गात् ।
Jain Educati
International
For Personal & Private Use Only
www.jainelibrary.org