________________
विभाग- १, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम्
३४. तत्सर्वत्राविशेषात् । ३५. स्वामिनो वा तदर्थत्वात् । ३६. लिङ्गदर्शनाच्च ।
३७. सर्वप्रदानं हविषस्तदर्थत्वात् ।
३८. निरवदानात्तु शेषः स्यात् । ३९. उपायो वा तदर्थत्वात् ।
४०. कृतत्वात्तु कर्मणः सकृत् स्याद् द्रव्यस्य गुणभूतत्वात् । ४१. शेषदर्शनाच्च ।
४२. अप्रयोजकत्वादेकस्मात् क्रियेरन् शेषस्य गुणभूतत्वात् । ४३. संस्कृतत्वाच्च ।
४४. सर्वेभ्यो वा कारणाविशेषात्, संस्कारस्य तदर्थत्वात् । ४५. लिङ्गदर्शनाच्च ।
४६. एकस्माच्चेद् याथाकाम्यमविशेषात् ।
४७. मुख्याद्वा पूर्वकालत्वात् ।
४८. भक्षाश्रवणाद्दानशब्दः परिक्रये । ४९. तत्संस्तवाच्च ।
५०. भक्षार्थो वा द्रव्ये समत्वात् । ५१. व्यादेशाद्दानसंस्तुतिः ।
॥ इति तृतीयाऽध्यायस्य चतुर्थः पादः ॥ पञ्चमः पादः
१. आज्याच्च सर्वसंयोगात् ।
२. कारणाच्च ।
३. एकस्मिन् समवत्तशब्दात् । ४. आज्ये च दर्शनात् स्विष्टकृदर्थवादस्य । ५. अशेषत्वात्तु नैवं स्यात् सर्वादानादशेषता ६. साधारण्यान्न ध्रुवायां स्यात् ।
७. अक्तत्वाच्च जुह्वां, तस्य च होमसंयोगात् ८. चमसवदिति चेत् ।
९. न, चोदनाविरोधाद्धविः प्रकल्पनाच्च ।
१०. उत्पन्नाधिकारात् सति सर्ववचनम् ।
Jain Education International
For Personal & Private Use Only
५५
www.jainelibrary.org