________________
विभाग-१, षडदर्शनसूत्रसंग्रहः - मीमांसादर्शनम्
३. विधिस्त्वपूर्वत्वात् स्यात् । ४. स प्रायात्कर्मधर्मः स्यात् । ५. वाक्यशेषत्वात् । ६. तत्प्रकरणे यत्संयुक्तमविप्रतिषेधात् । ७. तत्प्रधाने वा तुल्यवत्प्रसंख्यानादितरस्य तदर्थत्वात् । ८. अर्थवादो वा प्रकरणात् । ९. विधिना चैकवाक्यत्वात् । १०. दिग्विभागश्च तद्वत्सम्बन्धस्यार्थहेतुत्वात्। ११. परुषिहित-पूर्णघृत-विदग्धं तद्वत् । १२. अकर्म क्रतुसंयुक्तं संयोगानित्यानुवादः स्यात् । १३. विधिर्वा संयोगान्तरात् । १४. अहीनवत्पुरुषधर्मस्तदर्थत्वात् । १५. प्रकरणविशेषाद्वा तद्युक्तस्य संस्कारो द्रव्यवत् । १६. व्यपदेशादपकृष्येत । १७. शंयौ च सर्वपरिदानात् । १८. प्रागुपरोधात् मलवद्वाससः । १९. अन्नप्रतिषेधाच्च । २०. अप्रकरणे तु तद्धर्मस्ततो विशेषात् । २१. अद्रव्यत्वात्तु शेषः स्यात् । २२. वेदसंयोगात्। २३. द्रव्यसंयोगाच्च । २४. स्याद्वास्य संयोगवत् फलेन सम्बन्धस्तस्मात् कर्मैतिशायनः । २५. शेषोऽप्रकरणेऽविशेषात् सर्वकर्मणाम् । २६. होमास्तु व्यवतिष्ठेरन्नाहवनीयसंयोगात् । २७. शेषश्च समाख्यानात् । २८. दोषात्त्विष्टिलौकिके स्याच्छास्त्राद्धि वैदिके न दोषः स्यात् । २९. अर्थवादो वाऽनुपपातात् तस्माद्यज्ञे प्रतीयेत् । ३०. अचोदितं च कर्मभेदात् । ३१. सालिङ्गादाविजे स्यात् । ३२. पानव्यापच्च तद्वत् । ३३. दोषात्तु वैदिके स्यादर्थाद्धि लौकिके न दोषः स्यात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org