SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ विभाग- १, षड्दर्शनसूत्रसंग्रहः मीमांसादर्शनम् २१. चोदना वाऽपूर्वत्वात् । २२. एकदेश इति चेत् । २३. न प्रकृतेरशास्त्रनिष्पत्तेः । २४. सन्तर्दनं प्रकृतौ, क्रयणवदनर्थलोपात् स्यात् । २५. उत्कर्षो वा, ग्रहणाद्विशेषस्य । २६. कर्तृतो वा विशेषस्य तन्निमितत्वात् । २७. ऋतुतो वाऽर्थवादानुपपत्तेः स्यात् । २८. संस्थाश्च कर्तुवद्धारणार्थाविशेषात् । २९. उक्थ्यादिषु वाऽर्थस्य विद्यमानत्वात् । ३०. अविशेषात् स्तुतिर्व्यर्थेति चेत् । ३१. स्यादनित्यत्वात् । ३२. सङ्ख्यायुक्त क्रतोः प्रकरणात् स्यात् । ३३. नैमित्तिकं वा कर्तृसंयोगाल्लिङ्गस्य तन्निमित्तत्वात् । ३४. पौष्णं पेषणं विकृतौ प्रतीयेताऽचोदनात् प्रकृतौ । ३५. तत्सर्वार्थमविशेषात् । ३६. चरौ वा, अर्थोक्तं पुरोडाशेऽर्थविप्रतिषेधात्पशौ स्यात् । ३७. चरावपीति चेत् । ३८. न पक्तिनामत्वात् । ३९. एकस्मिन्नेकसंयोगात् । ४०. धर्मविप्रतिषेधाच्च । ४१. अपि वा सद्वितीय स्याद् देवतानिमित्तत्वाद् । " ४२. लिङ्गदर्शनाच्च । ४३. वचनात्सर्वपेषणं तं प्रति शास्त्रवत्त्वादर्थाभावात् द्विचरावपेषणं भवति । ४४. एकस्मिन् वाऽर्थधर्मत्वादैन्द्राग्नवदुभयोर्न स्यादचोदितत्वात् । ४५. हेतुमात्रमदन्तत्वम् । ४६. वचनं परम् । ॥ इति तृतीयाध्यायस्य तृतीयः पादः ॥ चतुर्थ: पादः १. निवीतमिति मनुष्यधर्मः शब्दस्य तत्प्रधानत्वात् । २. अपदेशो वाऽर्थस्य विद्यमानत्वात् । Jain Education International ५३ For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy