SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ५२ विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम् ३७. वषट्कारश्च कर्तृवत् । ३८. छन्दःप्रतिषेधस्तु सर्वगामित्वात् । ३९. ऐन्द्राग्ने तु लिङ्गभावात् स्यात् । ४०. एकस्मिन् वा देवतान्तराद् विभागवत् । ४१. छन्दश्च देवतावत् । ४२. सर्वेषु वाऽभावादेकच्छन्दसः । ४३. सर्वेषां त्वैकमन्त्यमैतिशायनस्य भक्तिपानत्वात् सवनाधिकारो हि। ॥इति तृतीयाऽध्यायस्य द्वितीयः पादः ॥ तृतीयः पादः १. श्रुतेर्जाताधिकारः स्यात् । २. वेदो वा प्रायदर्शनात् । ३. लिङ्गाच्च । ४. धर्मोपदेशाच्च न हि द्रव्येण सम्बन्धः । ५. त्रयीविद्याख्या च तद्विदि । ६. व्यतिक्रमे यथाश्रुतीति चेत् । ७. न सर्व्वस्मिन्निवेशात् । ८. वेदसंयोगान्न प्रकरणेन बाध्यते । ९. गुणमुख्यव्यतिक्रमे तदर्थत्वान्मुख्येन वेदसंयोगः। १०. भूयस्त्वेनोभयश्रुति। ११. असंयुक्तं प्रकरणादितिकर्तव्यतार्थित्वात् । १२. क्रमश्च देशसामान्यात् । १३. आख्या चैवं तदर्थत्वात् । १४. श्रुति-लिङ्ग-वाक्य-प्रकरण-स्थान-समाख्यानां समवाये परदौर्ब ल्यमर्थविप्रकर्षात् । १५. अहीनो वा प्रकरणाद् गौणः । १६. असंयोगात्तु मुख्यस्य तस्मादपकृष्येत । १७. द्वित्वबहुत्वयुक्तं चाचोदनात्तस्य । १८. पक्षेणार्थकृतस्येति चेत् । १९. न प्रकृतेरेकसंयोगात् । २०. जाघनी चैकदेशत्वात् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy