SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम् ७. गुणाभावात्। ८. लिङ्गाच्च । ९. विधिकोपश्चोपदेशे स्यात् । १०. तथोत्थानविसर्जने। ११. सूक्तवाके च कालविधिः, परार्थत्वात् । १२. उपदेशो वा याज्याशब्दो हि नाकस्मात्। १३. स देवतार्थस्तत्संयोगात् । १४. प्रतिपत्तिरिति चेत्, स्विष्टकुद्वदुभयसंस्कारः स्यात् । १५. कृत्स्नोपदेशादुभयत्र सर्ववचनम् । १६. यथार्थं वा शेषभूतसंस्कारात् । १७. वचनादिति चेत् । १८. प्रकरणाविभागदुभे प्रति कृत्स्नशब्दः । १९. लिङ्गक्रमसमाख्यानात् काम्ययुक्तं समाम्नानम् । २०. अधिकारे च मन्त्रविधिस्तदाख्येषु शिष्टत्वात् । २१. तदाख्यो वा प्रकरणोपपत्तिभ्याम् । २२. अनर्थकश्चोपदेशः स्यादसम्बन्धात् फलवता न ह्युपस्थानं फलवत् । २३. सर्वेषां चोपदिष्टत्वात् । २४. लिङ्गसमाख्यानाभ्यां भक्षार्थताऽनुवाकस्य । २५. तस्य रूपोपदेशाभ्यामपकर्षोऽर्थस्य चोदितत्वात् । २६. गुणाभिधानान्मन्द्रादिरेकमन्त्रः स्यात्, तयोरेकार्थसंयोगात् । २७. लिङ्गविशेषनिर्देशात् समानविधानेष्वनैन्द्राणाममन्त्रत्वम्। २८. यथादेवतं वा तत्प्रकृतित्वं हि दर्शयति । २९. पुनरभ्युन्नीतेषु सर्वेषामुपलक्षणं द्विशेषत्वात् । ३०. अपनयाद्वा पूर्वस्याऽनुपलक्षणम् । ३१. ग्रहणाद्वापनयः स्यात् । ३२. पात्नीवते तू पूर्ववत् । ३३. ग्रहणाद्वाऽपनीतं स्यात् । ३४. त्वष्टारं तूपलक्षयेत् पानात् । ३५. अतुल्यत्वात्तु नैवं स्यात् । ३६. त्रिंशच्च परार्थत्वात् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy