________________
विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम्
७. तेषामर्थेन सम्बन्धः। ८. विहितस्तु सर्वधर्मः स्यात्, संयोगतोऽविशेषात् प्रकरणाविशेषाच्च। ९. अर्थलोपादकर्म स्यात् ।। १०. फलन्तु सह चेष्टया शब्दार्थोऽभावाद्विप्रयोगे स्यात् । ११. द्रव्यं चोत्पत्तिसंयोगात्तदर्थमेव चोद्येत । १२. अर्थैकत्वे द्रव्यगुणयोरैककान्नियमः स्यात् । १३. एकत्वयुक्तमेकस्य श्रुतिसंयोगात् । १४. सर्वेषां वा लक्षणत्वादविशिष्टं हि लक्षणम् । १५. चोदिते तु परार्थत्वाद् यथाश्रुति प्रतीयेत । १६. संस्काराद्वा गुणानामव्यवस्था स्यात् । १७. व्यवस्था वाऽर्थस्य श्रुतिसंयोगात्, तस्य शब्दप्रमाणत्वात् । १८. आनर्थक्यात्तदङ्गेषु । १९. कर्तृगुणे तु कर्मासमवायाद् वाक्यभेदः स्यात् । २०. साकाक्षं त्वेकवाक्यं स्यादसमाप्तं हि पूर्वेण । २१. सन्दिग्धे तु व्यवायाद् वाक्यभेदः स्यात् । २२. गुणानां च परार्थत्वादसम्बन्धः समत्वात् स्यात् । २३. मिथश्चानर्थसम्बन्धात्। २४. आनन्तर्यमचोदना। २५. वाक्यानाञ्च समाप्तत्वात् । २६. शेषस्तु गुणसंयुक्तः साधारणः प्रतीयेत, मिथस्तेषामसम्बन्धात् । २७. व्यवस्था वाऽर्थसंयोगात् लिङ्गस्यार्थेन सम्बन्धात् लक्षणार्था गुणश्रुतिः ।
॥इति तृतीयाऽध्यायस्य प्रथमः पादः ।।
द्वितीयः पादः १. अर्थाभिधानसामर्थ्यान्मन्त्रेषु शेषभावः स्यात्तस्मादुत्पत्तिसम्बन्धोऽर्थेन
नित्यसंयोगात्। २. संस्कारकत्वादचोदितेन स्यात् । ३. वचनात्त्वयथार्थमैन्द्री स्यात् । ४. गुणाद्वाऽप्यभिधानं स्यात्, सम्बन्धस्याशास्त्रहेतुत्वात् । ५. तथाह्वानमपीति चेत् ? ६. नकालविधिश्चोदितत्वात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org