SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम् ४९ १५. आग्नेयवत् पुनर्वचनम् । १६. अद्विर्वचनं वा श्रुतिसंयोगाविशेषात् । १७. अर्थासन्निधेश्च। १८. न चैकं प्रतिशिष्यते । १९. समाप्तिवच्च सम्प्रेक्षा। २०. एकत्वेऽपि पराणिनिन्दाशक्तिसमाप्तिवचनानि । २१. प्रायश्चित्तं निमित्तेन। २२. प्रक्रमाद्वा नियोगेन। २३. समाप्तिः पूर्ववत्त्वाद् यथाज्ञाते प्रतीयेत । २४. लिङ्गमविशिष्टं सर्वशेषवान्न हि तत्र कर्मचोदना, तस्मात् द्वादशाह स्याहारव्यपदेशः स्यात् । २५. द्रव्ये चाचोदितत्वाद् विधीनामव्यवस्था स्यादनिर्देशाद् व्यवतिष्ठेत्, तस्मान्नित्यानुवादः स्यात् । २६. विहितप्रतिषेधात् पक्षेऽतिरेकः स्यात् । २७. सारस्वते विप्रतिषेधाद् यदेति स्यात् । २८. उपहव्येऽप्रतिप्रसवः । २९. गुणार्था वा पुनः श्रुतिः । ३०. प्रत्ययञ्चापि दर्शयति । ३१. अपि वा क्रमसंयोगाद् विधिपृथक्त्वमेकस्यां व्यवतिष्ठेत । ३२. विरोधिना त्वसंयोगादैककर्ये तत्संयोगाद्विधीनां सर्वकर्मप्रत्ययः स्यात् । ॥ इति द्वितीयाध्यायस्य चतुर्थः पादः द्वितीयोऽध्यायश्च ॥ अथ तृतीयोऽध्यायः प्रथमः पादः १. अथातः शेषलक्षणम्। २. शेषः परार्थत्वात् । ३. द्रव्यगुणसंस्कारेषु बादरिः। ४. कर्माण्यपि जैमिनिः फलार्थत्वात् । ५. फलं च पुरुषार्थत्वात् । ६. पुरुषश्च कर्माथत्वात् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy