________________
४८
विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम
१७. अर्थवादोपपत्तेश्च । १८. संयुक्तस्त्वर्थशब्देन तदर्थः श्रुतिसंयोगात् । १९. पात्नीवते तु पूर्वत्वादवच्छेदः । २०. अद्रव्यत्वात् केवले कर्मशेषः स्यात् । २१. अग्निस्तु लिङ्गदर्शनात् क्रतुशब्दः प्रतीयेत । २२. द्रव्यं वा स्यात् चोदनायास्तदर्थत्वात् । २३. तत्संयोगात् क्रतुस्तदाख्यः स्यात् तेन धर्मविधानानि । २४. प्रकरणान्तरे प्रयोजनान्यत्वम् । २५. फलं चाकर्मसन्निधौ। २६. सन्निधौ त्वविभागात् फलार्थेन पुनः श्रुतिः । २७. आग्नेयस्तूक्तहेतुत्वादभ्यासेन प्रतीयेत । २८. अविभागात्तु कर्मणां द्विरुक्तेन विधीयते। २९. अन्यार्था वा पुनः श्रुतिः।
॥इति द्वितीयाध्यायस्य तृतीयः पादः ॥
चतुर्थः पादः १. यावज्जीविकोऽभ्यासः कर्मधर्मः प्रकरणात् । २. कतुर्वा श्रुतिसंयोगात् । ३. लिङ्गदर्शनाच्च कर्मधर्मे हि प्रक्रमेण नियम्येत तत्रानर्थकमन्यत् स्यात् । ४. व्यपवर्गं च दर्शयति, कालश्चेत् कर्मभेदः स्यात् । ५. अनित्यत्वात् तु नैवं स्यात् । ६. विरोधश्चापि पूर्ववत् । ७. कर्तुस्तु धर्मनियमात् कालशास्त्रं निमित्तं स्यात् । ८. नामरूपधर्मविशेषपुनरुक्तिनिन्दाऽशक्तिसमाप्तिवचनप्रायश्चित्तान्यार्थ____दर्शनात् शाखान्तरेषु कर्मभेदः स्यात् ।
९. एकं वा संयोगरूपचोदनाख्याविशेषात् । १०. न नाम्ना स्यादचोदनाभिधानत्वात् । ११. सर्वेषां चैककचू स्यात् । १२. कृतकं चाभिधानम् । १३. एकत्वेऽपि परम् । १४. विद्यायां धर्मशास्त्रम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org