________________
विभाग-१, षड्दर्शनसूत्रसंग्रह: - मीमांसादर्शनम्
४७
१९. तद्भेदात् कर्मणोऽभ्यासो द्रव्यपृथक्त्वादनर्थकं हि स्याद् भेदो द्रव्य
गुणीभावात्। २०. संस्कारस्तु न भिद्येत, परार्थत्वात् द्रव्यस्य गुणभूतत्वात् । २१. पृथक्त्वनिवेशात् संख्यया कर्मभेदः स्यात् । २२. संज्ञा चोत्पत्तिसंयोगात्। २३. गुणश्चापूर्वसंयोगे वाक्ययोः समत्वात् । २४. अगुणे तु कर्मशब्दे गुणस्तत्र प्रतीयेत । २५. फलश्रुतेस्तु कर्म स्यात् फलस्य कर्मयोगित्वात् । २६. अतुल्यत्वात् तु वाक्ययोर्गुणे तस्य प्रतीयेत । २७. समेषु कर्म युक्तं स्यात् । २८. सौभरे पुरुषश्रुतेनिधने कामसंयोगः । २९. सर्वस्य वोक्तकामत्वात् तस्मिन् कामश्रुतिः स्यानिधनार्था पुनः श्रुतिः ।
॥ इति द्वितीयाध्यायस्य द्वितीयः पादः ॥
तृतीयः पादः । १. गुणस्तु क्रतुसंयोगात् कर्मान्तरं प्रयोजयेत् संयोगस्याशेषभूतत्वात् । २. एकस्य तु लिङ्गभेदात् प्रयोजनार्थमुच्येतैकत्वं गुणवाक्यत्वात् । ३. अवेष्टौ यज्ञसंयोगात् क्रतुप्रधानमुच्यते । ४. आधाने सर्वशेषत्वात् । ५. अयनेषु चोदनान्तरं संज्ञोपबन्धात् । ६. अगुणाच्च कर्मचोदना। ७. समाप्तं च फले वाक्यम् । ८. विकारो वा प्रकरणात् । ९. लिङ्गदर्शनाच्च । १०. गुणात् संज्ञोपबन्धः। ११. समाप्तिरविशिष्टा १२. संस्कारश्चाप्रकरणेऽकर्मशब्दत्वात् । १३. यावदुक्तं वा, कर्मणःश्रुतिमूलत्वात् । १४. यजतिस्तु द्रव्यफलभोक्तृसंयोगादेतेषां कर्मसम्बन्धात् । १५. लिङ्गदर्शनाच्च । १६. विशये प्रायदर्शनात् ।
For Personal & Private Use Only
www.jainelibrary.org