________________
विभाग-१, षड्दर्शनसूत्रसंग्रह: - मीमांसादर्शनम्
४२. अर्थाच्च । ४३. गुणार्थो व्यपदेशः। ४४. सर्वेषामिति चेत् । ४५. न ऋग्व्यपदेशात् । ४६. अर्थैकत्वादेकं वाक्यं साकाङ्क्ष चेद्विभागे स्यात् । ४७. समेषु वाक्यभेदः स्यात् । ४८. अनुषङ्गो वाक्यसमाप्तिः सर्वेषु तुल्ययोगित्वात् । ४९. व्यवायान्नानुषज्येत ।
॥इति द्वितीयाध्यायस्य प्रथमः पादः ॥
द्वितीयः पादः १. शब्दान्तरे कर्मभेदः कृतानुबन्धत्वात् । २. एकस्यैवं पुनः श्रुतिरविशेषादनर्थकं स्यात् । ३. प्रकरणं तु पौर्णमास्यां रूपावचनात् । ४. विशेषदर्शनाच्च सर्वेषां समेषु ह्यप्रवृत्तिः स्यात् । ५. गुणस्तु श्रुतिसंयोगात्। ६. चोदना वा गुणानां युगपच्छास्त्राच्चोदिते हि तदर्थत्वात्तस्य तस्योपदिश्यते। ७. व्यपदेशश्च तद्वत् । ८. लिङ्गदर्शनाच्च । ९. पौर्णमासीवदुपांशुयाजः स्यात् । १०. चोदना वाऽप्रकृतत्वात् । ११. गुणोपबन्धात्। १२. प्राये वचनाच्च । १३. आधाराग्निहोत्ररूपत्वात् । १४. संज्ञोपबन्धात्। १५. अप्रकृतत्वाच्च । १६. चोदना वा शब्दार्थस्य प्रयोगभूतत्वात् तत्सन्निधेर्गुणार्थेन पुनः श्रुतिः । १७. द्रव्यसंयोगाच्चोदना पशुसोमयोः प्रकरणे ह्यनर्थको द्रव्यसंयोगो न हि
तस्य गुणार्थेन। १८. अचोदकाश्च संस्काराः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org