________________
विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम्
४५
१२. न तदर्थत्वात् लोकवत्, तस्य च शेषभूतत्वात् । १३. स्तुतशस्त्रयोस्तु संस्कारो याज्यावद् देवताभिधानत्वात् । १४. अर्थेन त्वपकृष्येत देवतानामचोदनार्थस्य गुणभूतत्वात् । १५. वशावद्वा गुणार्थं स्यात् । १६. न, श्रुतिसमवायित्वात् । १७. व्यपदेशभेदाच्च । १८. गुणश्चानर्थकः स्यात् । १९. तथा याज्यापुरोरुचोः । २०. वशायामर्थसमवायात्। २१. यत्रेति वाऽर्थवत्त्वात् स्यात् । २२. न त्वाम्नातेषु । २३. दृश्यते । २४. अपि वा श्रुतिसंयोगात् प्रकरणे स्तौतिशंसती क्रियोत्पत्ति विदध्याताम् । २५. शब्दपृथक्त्वाच्च । २६. अनर्थकं च तद्वचनम् । २७. अन्यश्चार्थः प्रतीयते । २८. अभिधानं च कर्मवत् । २९. फलनिर्वृत्तिश्च । ३०. विधिमन्त्रयोरैकार्थ्यमैकशब्द्यात् । ३१. अपि वा प्रयोगसामर्थ्यात् मन्त्रोऽभिधानवाची स्यात् । ३२. तच्चोदकेषु मन्त्राख्या। ३३. शेषे ब्राह्मणशब्दः। . ३४. अनाम्नातेष्यमन्त्रत्वमाम्नातेषु हि विभागः स्यात् । ३५. तेषामृग् यत्रार्थवशेन पादव्यवस्था । ३६. गीतिषु सामाख्या। ३७. शेषे यजुः शब्दः। ३८. निगदो वा चतुर्थं स्याद्धर्मविशेषात् । ३९. व्यपदेशाच्च । ४०. यजूंषि वा तद्रूपत्वात् । ४१. वचनाद्धर्मविशेषः ।
For Personal & Private Use Only
www.jainelibrary.org