________________
४४
१६. परार्थत्वाद् गुणानाम् ।
१७. पूर्ववन्तोऽविधानार्थास्तत्सामर्थ्यं समाम्नाये ।
विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम्
१८. गुणस्य तु विधानार्थे तद्गुणाः प्रयोगे स्युरनर्थकाः, न हि तं प्रत्यर्थवत्तास्ति । १९. तच्छेषो नोपपद्यते ।
२०. अविभागाद्विधानार्थस्तुत्यर्थे नोपपद्यरेन् ।
२१. कारणं स्यात् इति चेत् ।
२२. आनर्थक्यादकारणम्, कर्तुर्हि कारणानि, गुणार्थो हि विधीयते ।
२३. तत्सिद्धिः ।
२४. जातिः ।
२५. सारूप्यात् । २६. प्रशंसा ।
२७. भूमा । २८. लिङ्गसमवायात् ।
२९. सन्दिग्धेषु वाक्यशेषात् ।
३०. अर्थाद् वा कल्पनैकदेशत्वात् ।
॥ इति प्रथमाध्यायस्य चतुर्थः पादः प्रथमाध्यायाश्च ॥ अथ द्वितीयोऽध्यायः प्रथमः पादः
१. भावार्थाः कर्मशब्दाः तेभ्यः क्रिया प्रतीयेतैष ह्यर्थो विधीयते ।
२. सर्वेषां भावोऽर्थ इति चेत् ।
३. येषामुत्पत्तौ स्वे प्रयोगे रूपोपलब्धिस्तानि नामानि, तस्मात् तेभ्यः पराकाङ्क्षा भूतत्वात् स्वे प्रयोगे ।
४. येषां तूत्पत्तावर्थे स्वे प्रयोगो न विद्यते, तान्याख्यातानि तस्मात् तेभ्यः प्रतीयेत आश्रितत्वात् प्रयोगस्य ।
५. चोदना पुनरारम्भः ।
६. तानि द्वैधं गुणप्रधानभूतानि ।
७. यैर्द्रव्यं न चिकीर्ष्यते, तानि प्रधानभूतानि, द्रव्यस्य गुणभूतत्वात् । ८. यैस्तु द्रव्यं चिकीर्ष्यते, गुणस्तत्र प्रतीयेत तस्य द्रव्यप्रधानत्वात् । ९. धर्ममात्रे तु कर्म स्यादनिर्वृत्तेः प्रयाजवत्।
१०. तुल्यश्रुतित्वाद्वा इतरैः सधर्मः स्यात् ।
११. द्रव्योपदेश इति चेत् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org