________________
विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम्
२३. तुल्यं तु कर्तृधर्मेण । २४. प्रयोगोत्पत्त्यशास्त्रत्वाच्छब्देषु न व्यवस्था स्यात् । २५. शब्दे प्रयत्ननिष्पत्तेरपराधस्य भागित्वम् । २६. अन्यायश्चानेकशब्दत्वम् । २७. तत्र तत्त्वमभियोगविशेषात् स्यात् । २८. तदशक्तिश्चानुरूपत्वात् । २९. एक देशत्वाच्च विभक्तिव्यत्यये स्यात् । ३०. प्रयोगचोदनाभावादथैकत्वमविभागात् । ३१. अद्रव्यशब्दत्वात् । ३२. अन्यदर्शनाच्च । ३३. आकृतिस्तु क्रियार्थत्वात् । ३४. न क्रिया स्यादिति चेदर्थान्तरे विधानं न द्रव्यमिति चेत् । ३५. तदर्थत्वात् प्रयोगस्याविभागः ।
॥इति प्रथमाध्यायस्य तृतीयः पादः ॥
चतुर्थः पादः १. उक्तं सामाम्नायैदमर्थ्य तस्मात् सर्वं तदर्थं स्यात् । २. अपि वा नामधेयं स्यात् यदुत्पत्तावपूर्वमविधाय-कत्वात् । ३. यस्मिन् गुणोपदेशः प्रधानतोऽभिसम्बन्धः । ४. तत्प्रख्यञ्चान्यशास्त्रम् । ५. तद्व्यपदेशं च । ६. नामधेये गुणश्रुतेः स्याद् विधानमिति चेत् । ७. तुल्यत्वात् क्रिययोर्न । ८. ऐकशब्द्ये परार्थवत् । ९. तद्गुणास्तु विधीयेरन्नविभागाद्विधानार्थेन चेदन्येन शिष्टाः स्युः । १०. बर्हिराज्ययोरसंस्कारे शब्दलाभादतच्छब्दः । ११. प्रोक्षणीष्वर्थसंयोगात्। १२. तथा निर्मन्थ्ये। १३. वैश्वदेवे विकल्प इति चेत् । १४. न वा, प्रकरणात् प्रत्यक्षविधानाच्च न हि प्रकरणं द्रव्यस्य । १५. मिथश्चानर्थसम्बन्धः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org