SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ४२ ४८. विद्यावचनमसंयोगात् । ४९. सतः परमविज्ञानम् । ५०. उक्तश्चानित्यसंयोगः । ५१. लिङ्गोपदेशश्च तदर्थवत् । ५२. ऊहः । ५३. विधिशब्दाश्च । विभाग- १, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम् ॥ इति प्रथमाध्यायस्य द्वितीयः पादः ॥ तृतीयः पादः १. धर्मस्य शब्दमूलत्वात् अशब्दमनपेक्ष्यं स्यात् । २. अपि वा कर्तृसामान्यात् प्रमाणमनुमानं स्यात् । ३. विरोधे त्वनपेक्ष्यं स्यात्, असति ह्यनुमानम् । ४. हेतुदर्शनाच्च । ५. शिष्टाकोपे विरुद्धमिति चेत् । ६. न शास्त्रपरिणामत्वात् । ७. अपि वा कारणाग्रहणे प्रयुक्तानि प्रतीयेरन् । ८. तेष्वदर्शनाद्विरोधस्य समा विप्रतिपत्तिः स्यात् । ९. शास्त्रस्था वा तन्निमित्तत्वात् । १०. चोदितं तु वा प्रतीयेताविरोधात् प्रमाणेन । ११. प्रयोगशास्त्रमिति चेत् । १२. नाऽसन्नियमात् । १३. अवाक्यशेषाच्च । १४. सर्वत्र च प्रयोगात् सन्निधानशास्त्राच्च । १५. अनुमानव्यवस्थानात् तत्संयुक्तं प्रमाणं स्यात् । १६. अपि वा सर्वधर्मः स्यात्, तन्यायत्वाद्विधानस्य । १७. दर्शनाद्विनियोग: स्यात् । १८. लिङ्गाभावाच्च नित्यस्य । १९. आख्या हि देशसंयोगात् । २०. न स्याद् देशान्तरेष्विति चेत् । २१. स्यात् योगाख्या हि माथुरवत् । २२. कर्मधर्मो वा प्रवणवत् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy