________________
विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम्
x9
१९. विधिर्वा स्यादपूर्वत्वाद् वादमात्रं ह्यनर्थकम् । २०. लोकवदिति चेत् । २१. न पूर्वत्वात् । २२. उक्तन्तु वाक्यशेषत्वम् । २३. विधिश्चानर्थकः क्वचित्, तस्मात्स्तुतिः प्रतीयेत्, तत्सामान्यादितरेषु
तथात्वम् । २४. प्रकरणे सम्भवन् अपकर्षो न कल्प्येत, विध्यानर्थक्यं हि तं प्रति । २५. विद्यौ च वाक्यभेदः स्यात् । २६. हेतुर्वा स्यादर्थवत्त्वोपपत्तिभ्याम् । २७. स्तुतिस्तु शब्दपूर्वत्वात्, अचोदना च तस्य । २८. व्यर्थे स्तुतिरन्याय्येति चेत् । २९. अर्थस्तु, विधिशेषत्वात् यथा लोके । ३०. यदि च हेतुरवतिष्ठेत निर्देशात्, सामान्यादिति चेदव्यवस्था विधीनां स्यात् । ३१. तदर्थशास्त्रात् । ३२. वाक्यनियमात् । ३३. बुद्धशास्त्रात्। ३४. अविद्यमानवचनात् । ३५. अचेतनेऽर्थबन्धनात् । ३६. अर्थविप्रतिषेधात् । ३७. स्वाध्यायवद् वचनात् । ३८. अविज्ञेयात् । ३९. अनित्यसंयोगान्मन्त्रानाक्यम्। ४०. अविशिष्टस्तु वाक्यार्थः । ४१. गुणार्थेन पुनः श्रुतिः। ४२. परिसंख्या। ४३. अर्थवादो वा। ४४. अविरुद्ध परम्। ४५. सम्प्रेषे कर्मगर्हानुपालम्भः संस्कारत्वात्। ४६. अभिधानेऽर्थवादः। ४७. गुणादप्रतिषेधः स्यात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org