________________
विभाग-१, षड्दर्शनसूत्रसंग्रह, जैनदर्शनम्-श्रीतत्त्वार्थाधिगमसूत्रम्
१८. अल्पारम्भपरिग्रहत्वं स्वभावमार्दवार्जवं च मानुषस्य । १९. निःशीलव्रतत्वं च सर्वेषाम् । २०. सरागसंयम-संयमा-संयमाकामनिर्जरा-बालतपांसि दैवस्य। २१. योगवक्रता विसंवादनं चाशुभस्य नाम्नः । २२. विपरीतं शुभस्य। २३. दर्शनविशुद्धिविनयसंपन्नताशीलव्रतेष्वनतिचारोऽभीक्ष्णं ज्ञानोपयोग
संवेगौ शक्तितस्त्याग-तपसी - संघसाधुसमाधि-वैयावृत्त्यकरणमर्हदाचार्य-बहुश्रुत-प्रवचनभक्तिरावश्यकापरिहाणिर्मार्गप्रभावना
प्रवचनवत्सलत्वमिति तीर्थकृत्त्वस्य । २४. परात्मनिन्दाप्रशंसे सदसद् गुणाच्छादनोद्भावने च नीचैर्गोत्रस्य । २५. तद्विपर्ययो नीचैर्वृत्त्यनूत्सेको चोत्तरस्य । २६. विघ्नकरणमन्तरायस्य ।
अथ सप्तमोऽध्यायः १. हिंसाऽनृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिव्रतम् । २. देशसर्वतोऽणुमहती। ३. तत्स्थैर्यार्थं भावनाः पञ्च पञ्च । ४. हिंसादिष्विहामुत्र चापायावद्यदर्शनम्। ५. दुःखमेव वा। ६. मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानि सत्त्वगुणाधिकक्लिश्यमानाविनेयेषु । ७. जगत्कायस्वभावौ च संवेगवैराग्यार्थम् । ८. प्रमत्तयोगात्प्राणव्यपरोपणं हिंसा। ९. असदभिधानमनृतम्। १०. अदत्तादानं. स्तेयम्। ११. मैथुनमब्रह्म। १२. मूर्छा परिग्रहः । १३. निःशल्यो व्रती। १४. अगार्यनगारश्च । १५. अणुव्रतोऽगारी। १६. दिग्देशानर्थदण्डविरतिसामायिकपौषधोपवासोपभोगपरिभोग__परिमाणातिथिसंविभागवतसंपन्नश्च।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org