SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ३२ विभाग-१, षड्दर्शनसूत्रसंग्रह, जैनदर्शनम् - श्रीतत्त्वार्थाधिगमसूत्रम् ३५. द्व्यधिकादिगुणानां तु । ३६. बन्धे समाधिकौ पारिणामिकौ । ३७. गुणपर्यायवद् द्रव्यम् । ३८. कालश्चेत्येके । ३९. सोऽनन्तसमयः । ४०. द्रव्याश्रया निर्गुणा गुणा: । ४१. तद्भावः परिणामः । ४२. अनादिरादिमांश्च । ४३. रुपिष्वादिमान् । ४४. योगोपयोगौ जीवेषु । अथ षष्ठोऽध्यायः १. कायवाङ्मनः कर्मयोगः । २. स आश्रवः । ३. शुभः पुण्यस्य । ४. अशुभः पापस्य । ५. सकषायाकषाययोः साम्परायिकेर्यापथयोः । ६. अव्रत- कषायेन्द्रिय-क्रियाः पञ्च चतुःपञ्च पञ्चविंशतिसंख्या: पूर्वस्य भेदाः। ७. तीव्रमन्दज्ञाताज्ञातभाव- वीर्य्याधिकरणविशेषेभ्यस्तद्विशेषः । ८. अधिकरणं जीवाजीवाः । ९. आद्यं संरम्भसमारम्भारम्भ योगकृतकारितानुमतकषायविशेषैस्त्रिस्त्रिश्चतुश्चैकशः । १०. निर्वर्तनानिक्षेपसंयोगनिसर्गाद्विचतुर्द्वित्रिभेदाः परम् । ११. तत्प्रदोषनिह्नवमात्सर्यान्तरायासादनोपघाता ज्ञानदर्शनावरणयोः । १२. दुःख - शोक - तापाक्रन्दन-वध- परिदेवनान्यात्मपरोभयस्थान्यसद्वेद्यस्य । १३. भूतव्रत्यनुकम्पा दानं सरागसंयमादियोगः क्षान्तिः शौचमिति सद्वेद्यस्य । १४. केवलि - श्रुत- संघ-धर्म- देवावर्णवादो दर्शनमोहस्य । १५. कषायोदयात्तीव्रात्मपरिणामश्चारित्रमोहस्य | १६. बह्वारम्भपरिग्रहत्वं च नारकस्यायुषः । १७. माया तैर्यग्योनस्य । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy