________________
३४
विभाग-१, षड्दर्शनसूत्रसग्रह, जैनदर्शनम्-श्रीतत्त्वाथोधिगमसूत्रम्
१७. मारणान्तिकी संलेखनां जोषिता । १८. शङ्काकाङ्क्षाविचिकित्साऽन्यदृष्टिप्रशंसा संस्तवाः सम्यग्दृष्टेरतिचाराः। १९. व्रतशीलेषु पञ्च पञ्च यथाक्रमम् । २०. बन्धवधच्छविच्छेदाऽतिभारारोपणान्नपाननिरोधाः । २१. मिथ्योपदेशरहस्याभ्याख्यानकूटलेखक्रियान्यासापहारसाकार
मन्त्रभेदाः। २२. स्तेनप्रयोगतदाहृतादानविरुद्धराज्यातिक्रमहीनाधिकमानोन्मान
प्रतिरुपकव्यवहाराः । २३. परविवाहकरणेत्वरपरिगृहीता परिगृहीतागमनानङ्गक्रीडा तीव्र
कामाभिनिवेशाः। २४. क्षेत्रवास्तुहिरण्यसुवर्ण धनधान्यदासीदासकुप्यप्रमाणातिक्रमाः। २५. ऊर्ध्वाधस्तिर्यग्व्यतिक्रमक्षेत्रवृद्धिस्मृत्यन्तर्धानानि । २६. आनयन प्रेष्यप्रयोगशब्दरुपानुपात पुद्गलक्षेपाः । २७. कन्दर्पकौत्कुच्यमौखर्यासमीक्ष्याधिकरणोपभोगाधिकत्वानि ॥ २८. योगदुष्प्रणिधानानादरस्मृत्यनुपस्थापनानि । २९. अप्रत्यवेक्षिताप्रमार्जितोत्सर्गादाननिक्षेपसंस्तारोपक्रमणानादर
स्मृत्यनुपस्थापनानि । ३०. सचित्त-संबद्ध-संमिश्राऽभिषव दुष्पक्वाहाराः । ३१. सचित्तनिक्षेप-पिधान-परव्यपदेश-मात्सर्य-कालातिक्रमाः । ३२. जीवितमरणाशंसा-मित्रानुराग-सुखानुबन्ध-निदानकरणानि। ३३. अनुग्रहार्थं स्वस्यातिसर्गो दानम्। ३४. विधि-द्रव्य-दातृ-पात्रविशेषात्तद्विशेषः।
अथ अष्टमोऽध्यायः १. मिथ्यादर्शनाऽविरति-प्रमाद-कषाय-योगा बन्धहेतवः । २. सकषायत्वाज्जीवः कर्मणो योग्यान्पुद्गलानादत्ते । ३. स बन्धः । ४. प्रकृतिस्थित्यनुभावप्रदेशास्तद्विधयः । ५. आद्यो ज्ञान-दर्शनावरण-वेदनीय-मोहनीयायुष्क-नाम-गोत्रान्तरायाः । ६. पञ्चनवद्वयष्टाविंशतिचतुर्द्विचत्वारिंशद्-द्विपञ्चभेदा यथाक्रमम् । ७. मत्यादीनाम्।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org