________________
विभाग- १, षड्दर्शनसूत्रसंग्रह, जैनदर्शनम् श्रीतत्त्वार्थाधिगमसूत्रम्
३. दशाष्टपञ्चद्वादशविकल्पाः कल्पोपपन्नपर्यन्ताः ।
४. इन्द्र - सामानिक- त्रायस्त्रिंशपारिषद्यात्मरक्षलोकपालानीक प्रकीर्णकाभियोग्य किल्बिषकाश्चैकशः ।
५. त्रायस्त्रिंशलोकपालवर्ज्या व्यन्तरज्योतिष्काः । ६. पूर्वयोर्द्वन्द्राः ।
७. पीतान्तलेश्या: ।
८. कायप्रवीचारा आ ऐशानात् ।
९. शेषाः स्पर्शरुपशब्दमन: प्रवीचारा द्वयोर्द्वयोः । १०. परेऽप्रवीचाराः ।
११. भवनवासिनोऽसुर - नाग - विद्युत्सुपर्णाग्निवात स्तनितोदधिद्वीपदिकुमाराः । १२. व्यन्तराः किन्नरकिम्पुरुषमहोरगगान्धर्वयक्षराक्षसभूतपिशाचाः ।
१३. ज्योतिष्काः सूर्याश्चन्द्रमसो ग्रहनक्षत्रप्रकीर्णतारकाश्च ।
१४. मेरुप्रदक्षिणा नित्यगतयो नृलोके ।
१५. तत्कृतः कालविभागः ।
१६. बहिरवस्थिताः । १७. वैमानिका: ।
१८. कल्पोपपन्नाः कल्पातीताश्च ।
१९. उपर्युपरि ।
२०. सौधर्मेशान - सनत्कुमार- माहेन्द्रब्रह्मलोक - लान्तक- महाशुक्र - सहस्रारेष्वानतप्राणतयोरारणाच्युतयोर्नवसु ग्रैवयकेषु विजयवैजयन्तजयन्तापराजितेषु सर्वार्थसिद्धे च ।
२१. स्थितिप्रभावसुखद्युतिलेश्याविशुद्धीन्द्रियावधिविषयतोऽधिकाः । २२. गति - शरीर-परिग्रहाऽभिमानतो हीनाः ।
२३. पीत-पद्म- शुक्ललेश्या द्वित्रिशेषेषु ।
२४. प्राग्ग्रैवेयकेभ्यः कल्पाः ।
२९
२५. ब्रह्मलोकालया लोकान्तिकाः ।
२६. सारस्वतादित्यवन्यरुणगर्दतोय तुषिताव्याबाध मरुतोरिष्टाश्च । २७. विजयादिषु द्विचरमाः ।
२८. औपपातिकमनुष्येभ्यः शेषास्तिर्यग्योनयः ।
२९. स्थितिः ।
Jain Education International
For Personal & Private Use Only
-
-
www.jainelibrary.org